SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५८ दण्डविवेकः । संग्रहणप्रकरणे पठितम् । रत्नाकरे त्वभिगमनानुवृत्तौ कात्यायन इति कृत्वा तत्रैवावतारितम् । नारद-कात्यायनौ,--- प्रदष्टत्यक्तदारस्य क्लोवस्याक्षमकस्य च । सेच्छानुपेयुषो दारान् न दोषः साहसे भवेत्॥ अत्र कल्पतरुः,प्रदुष्टात्यक्ताः स्खदारा येन तस्य दृष्टान् दारान् तथा लौवाक्षमयोर्दाराणामेवेच्छयोपगच्छन् न दण्डनीय इत्यर्थः। मनुः,नैष चारणदोषेषु विधिर्नात्मोपजौविषु । संजयन्ति हि ते नारौं निगूढाश्चारयन्ति च ॥ चारणा नटादयः, आत्मोपजीविनो वेशोपजौविनः । ते हि- "भार्या पुत्रः स्विका तनुः” इत्युक्त्या आत्मस्थानौयां भार्यामुपजीवन्ति । आत्मोपजीविषु वेश्याजनेविति नारायणः । एषां नायमभिभाषणनिषेधविधिर्नापि तदधौनो दण्डविधिः । यस्मादेते स्वभार्या परपुरुषैः सह सञ्जयन्ति संयोजयन्ति प्रच्छन्नौकृत्य चारयन्ति च इत्यर्थः । यदि तु ताभिरपि सह निगूढः सम्भाषणं करोति तदा दण्डलेशं दाप्य इत्याह मनुरेव, किञ्चिदेव दाप्यः स्यात् सम्भाषं ताभिराचरन् । प्रेष्यासु चैकभक्तासु रहः प्रव्रजितासु च ॥ For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy