________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परदाराभिमर्षणदण्डः ।
सम्भाषणं परस्त्रीभिः प्रतिषिवो न चाचरेत् । निषिद्धो भाषमाणस्तु सुवर्ण दण्डमर्हति ॥ वन्दिनः स्तावकाः, दौक्षिता यज्ञार्थं कृतदीक्षाः, कारवो भृत्यर्थं शिल्पिन इति रत्नाकरः। सूपकारादय इति मनुटौका। अप्रतिवारिता अप्रतिषिद्धाः, भाषमाणः सम्भाषणं कुर्बाणः। स्त्रौदण्डे विशेषमाह याज्ञवल्क्यः,
स्त्री निषेधे शतं दण्ड्या द्विशतन्तु दमं पुमान् ।
प्रतिषेधे तयोर्दण्डो यथा संग्रहणे तथा ॥ पतिपुत्रादिभिर्निषिड्वाऽपि स्त्री पुरुषेण सह सम्भाषणादिकं कुर्वाणा शतं दण्ड्या। पुरुषस्त्वेवं कुर्वन् द्विशतं दण्ड्यः । स्त्रीपुरुषौ परस्परं तथा कुर्वाणौ त्वभिगमवदर्णानुसारेण दण्ड्यावित्यर्थः।
अत्र मानवं वचनमभ्यासविषयं धनिकविषयं वा। याज्ञवल्क्यौयन्त्वनभ्यासनिर्धनविषयमिति प्रतिभाति । अचापवादमाह कात्यायनः,नाथवत्या परग्रहे संयुक्तस्य स्त्रिया सह ।
दष्टं संग्रहणं तज्ज्ञैर्नागतायाः स्वयं गृहे ॥ तथा,
अतोऽन्येन प्रकारेण प्रवृत्तौ ग्रहणं भवेत् । स्वयमेवागतायान्तु पुंरहे स न दोषभाक् ॥ पुंग्रह इति स्त्रीयहं गते पुंसि स्त्रियां स्वयमुपस्थितायामधिकार पुंसो न दोष एवेत्यर्थः। एतद्वचनं कल्पतरौ
१ ग पुस्तके उत्त्यर्थ ।
२ ख घ अधि
।
For Private And Personal Use Only