________________
Shri Mahavir Jain Aradhana Kendra
१५०
www.kobatirth.org
दण्डविवेकः ।
Acharya Shri Kailassagarsuri Gyanmandir
पक्कान्नानां कृतान्नानां मद्यानामोदनस्य च । सर्व्वेषां स्वल्पमूल्यानां मूल्यात् पञ्चगुणो दमः ॥ कामधेनौ,—
ओदनस्येत्यच श्रामिषस्येति पठितम् । मिताक्षरायामौषधस्येति पठितमुक्तञ्च -
ओदनस्य पक्वान्नेन संग्रहादिति प्रतिभाति ॥ श्रच मनूक्तानां मध्वादीनां नारदोक्तानां गोर सादौनां मूल्यद्दिगुण- पञ्चगुण दण्डविकल्पो ऽल्पाल्पदध्यादिविषयतया व्यवस्थित इति प्रतिभाति ।
मनुः, -
यस्तु रज्जुं घटं कूपाद्धरेद्भिन्द्याञ्च यः प्रपाम् । स दण्डं प्राप्नुयान्माषं तच्च तस्मिन् समाहरेत् ॥ कूपात् कूपसमौपात् रज्जुं घटमिति रज्जुं वा घटं वा इति कुल्लूकभट्टः । तच्च रज्जुमेकं घटमेकच द्रव्यमिति
रत्नाकरः ।
कामधेनौ तु —
तदित्यग्रे दृष्ट्वा वज्रघटमिति पठितम् । एवमेव हलायुधनिबन्धः ।
पारिजातेऽपि तथैवेति पठित्वा समाहारद्वन्द्व उक्तः । तस्मिन कूपे समाहरेत् त्यजेत् ।
शङ्खलिखितौ –
अब्राह्मणो ब्राह्मणस्य समिदाज्येध्मानि काष्ठ- तृणोपल'पुष्पफलमूलाद्यपहरन् वा बलादविज्ञानतो' हस्तच्छेदन
१ ग योजयेत् ।
२ ग पुस्तके टोलप – ।
३ ग व्यपरिज्ञानतः ।
For Private And Personal Use Only
-