________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तेयदण्डः ।
महत्त्वात् वचनस्यास्य रत्नाकरे मध्यद्रव्यप्रकरणेऽवतारणाच्च। विरोधे शाकमूलफलानि राजब्राह्मणस्वामिकानि देवताद्यर्थानि यज्ञार्थमुपकल्पितानि दर्लभानि वा विवक्षितानौति प्रतिभाति।
नारायणेन तु शाकमूलफलेषु बहुमूल्यान्नोपयुक्तेषु इति व्याख्यातम् । शङ्खलिखितौ,
'एकचक्राहरणे चत्वारिंशत् कटेऽशौतिशतम् । एकचक्रमेकरथाङ्गं चत्वारिंशत्पणा एवाशौतिशतमौत्यधिकं शतम्। अथ क्षुद्रद्रव्यापहारे व्यासः,मध्यहीनद्रव्यहारौ पुष्यमूलफलस्य च । दाप्यस्तद्दिगुणं दण्डमथवा पञ्चकृष्णलान् ॥ मध्यहीनं द्रव्यमन्नादि, कृष्णलशब्देन त्रियवपरिमितं द्रव्यमभिधेयं तच्चात्र सौवर्णं लिखितपरिभाषानुसारात् । गौतमः,
फलहरितशाकादाने पञ्चकृष्णलमन्ये । आदाने हरणे दण्ड इति शेषः । अब फलशाकयोरनन्तरोतातिरिक्तयोरिह ग्रहणमतो न तेन विरोधः। अस्तु वा विकल्पः-अन्ये इत्यभिधानात्। स चाभ्यासाऽनभ्यासाभ्यां ग्रहणहेतु-ग्रौत्याद्यतिशयानतिशयाभ्यां व्यवस्थित इति प्रतिभाति ।
१ घ एकचक्रहरणे।
For Private And Personal Use Only