SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकोपहारिदण्डः । २४३ इति याज्ञवल्क्यवचनं तस्याप्यस्यामेव व्यवस्थायां तात्पर्य्यम् । यत्तु,साहसेषु य एवोक्तस्त्रिषु दण्डो मनीषिभिः । स एव दण्डः स्तेयेषु द्रव्येषु विधनुक्रमात् ॥ इति नारदवचनम्, तत्र रत्नाकरकृतैवोक्तं अयमतिदेशः क्षुद्रमध्यममहट्रव्येषु 'विरुद्धदण्डावरुडेषु द्रष्टव्य इति। तेषूत्तमद्रव्यापहारे नारदः, तुलाधरिममेयानां गणिमानाञ्च सर्वशः । एभिरुत्कृष्टमूल्यानां मूल्याद्दशगुणो दमः ॥ तुलाधरिमं कर्पूरादि, तुलादण्डे धृत्वा तुलनातो मेयं बौह्यादि, उत्सङ्गतः प्रस्थादिपरिमेयत्वात्। गणिमं पूगादि, प्रायेण विंशत्यादिगणनया क्रमादिव्यवहारविषयत्वात् । एभिरिति पूर्वप्रक्रान्तानां काष्ठभाण्डादौनां प्रत्यवमर्षः, तन्मूल्याधिक-मूल्यत्वेनोत्तमत्वं प्रतिपाद्यते । __ अथोत्तमानां द्रव्याणां तारतम्यादपहारिणो दण्डतारतम्यमित्याह। मनुः, तथा धरिममेयानां शतादभ्यधिको दमः। सुवर्णरजतादौनामुत्तमानाञ्च वाससाम् ॥ पञ्चाशतत्वभ्यधिके हस्तछेदनमिष्यते। शेषेऽप्येकादशगुणं मूल्यादण्डं प्रकल्पयेत् ॥ अत्र धान्यं दशभ्यः कुम्भेभ्य इत्यादि पूर्वोक्तेन सह १ ग दण्डानवरद्धेषु । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy