________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दगडविवेकः ।
१४२
सम्भवति तस्य तन्मात्रं यस्य त्वधिकं तस्य द्विगुणो दण्डः । यस्य तु मूल्यमाचमपि नास्ति चौर्य्ये चातिप्रसङ्गस्तस्य वध इति व्यवस्थेति रत्नाकरः ।
मनुः,—
कोष्ठागारायुधागारदेवतागारभेदिनः । हस्त्यश्वरथहन्त॑श्च हन्यादेवाविचारयन् ॥ आगारपदोपसन्धानादायुधमिह राजकीयं द्रष्टव्यम् । एतदप्यतिप्रसङ्ग विषयमिति प्रतिभाति ॥
तृणं वा यदि वा काष्ठं पुष्यं वा यदि वा फलम् । अनाटय तु गृह्णानो हस्तछेदनमर्हति ॥
इति बृहस्पतिवचनमप्यतिप्रसङ्गविषयमेव । तृणाद्यपहारविषयेण मूल्यद्विपञ्चगुणदण्डेन समं हस्तछेदस्य वैषम्येण विकल्पायोगादिति द्रष्टव्यम् ।
यत्तु,
येन येन परद्रोहं करोत्यङ्गेन तस्करः । छिन्द्यात्तत्तस्य नृपतिर्न करोति यथा पुनः ॥
इति कात्यायनवचनं तद्यक्तमेवातिप्रसङ्गविषयं न करोति यथा पुनरित्यभिधानात् । एवञ्च यच दण्डे विशेषो न श्रूयते तत्रैव तद्यक्तव्यवस्थानुसारेणैव तत्कल्पनमिति प्रतिभाति ।
यच्च,
क्षुद्रमध्यमहाद्रव्यहरणे सारतो दमः ।
देशं कालं वयः शक्तिं सञ्चिन्त्य दण्डकर्म्मणि ॥
For Private And Personal Use Only