________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
दण्डविवेकः।
हलायुधस्तु,
क्षेत्रस्वामिनोऽत्यये तद्दोषेण यदा शस्यदोषो भवति तदा राज्ञा स्वग्राह्यभागाद्दशगुणं दण्डनीयः। तदज्ञानाञ्च मृत्यदोषेण शस्यनाशे भृत्य एव तदर्थेन दण्डनीय इत्यर्थमाह ।
अथ प्रकीर्णापहारिदण्डः । तब प्रकोण नाम प्रागुक्तद्विपदादिव्यतिरिक्तं रत्नादौत्युक्तं तत् त्रिविधन्तृत्तमादिभेदात् । तत्र नारदः,तदपि विविधं प्रोक्तं सापेक्षं मनीषिभिः ।
क्षुद्रमध्योत्तमानाञ्च द्रव्याणामपकर्षणात् ॥ अपकर्षणमपहरणम् । क्रमेणामौषां परिगणनमाह स एव ।
मृद्भाण्डासन खास्थि' दारुचर्माणादिकम् ।
शमोधान्यं कृतान्नञ्च क्षुद्रद्रव्यमुदाहृतम् ॥ शमोधान्यं शिम्व्यादिभवं मुद्रादि।
वासः कौषेयवर्जच्च गोवज पशवस्तथा । हिरण्यवज्ज लौहच्च मध्यं बौहियवा अपि ॥ लौहशब्दो धातुपरः। मध्यं मध्यमद्रव्यमित्यर्थः । हिरण्यरत्नकौशेयं स्त्रीपुंसौ गजवाजिनः ।
देवब्राह्मणराज्ञाञ्च द्रव्यं विज्ञेयमुत्तमम् ॥ १ ग खट्वादि । क्वचित् खङ्गादि। २ घ शिम्यां भवम् ।
३ ख पुस्तके ब्रोहियवं तथा ।
For Private And Personal Use Only