________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तयदगडः।
१३६
तथा,गोषु ब्राह्मणसंस्थासु स्थूरिकायाश्च भेदने ।
पशूनां हरणे चैव सद्यः कार्योऽर्द्धपादिकः ॥ ब्राह्मणसंस्थासु ब्राह्मणसम्बन्धिनौषु हृतास्विति शेषः प्रकरणात्। स्थूरिकेति वृषमहिषादिभिः पृष्ठवाह्यो भारः। स्थूलास्फूलौ परिहण इति धात्वनुसारात्। ततः स्वार्थिकः कन्प्रत्ययः, स्थादित्यादिना इत्वं रलयोरेकत्र स्मरणात् । स्थूरिका गोणीति प्रसिद्धा तस्या भेदने पाठने धान्याद्यपहरण इति यावत्।
यत्तु बन्ध्याया गोर्वाहनार्थ नासाभेदन इति कुल्लकव्याख्यानं तदनादेयं पाठापरिचय-पदार्थापरिज्ञानमूलकत्वात्।
वोदषभस्य भारः स्फूरिका तस्या भेदने तहतधान्यापहार इति नारायणव्याख्यानमसङ्गतं स्यात् । नासाभेदनस्यापदार्थत्वात् प्रकरणविरुद्धत्वाच्च ।
एतेन स्फुरिका बन्ध्या, भेदनं नासाभेदनमिति रत्नाकरव्याख्यानमपास्तम् । अईपादिको भिन्नाईपादयः । तथा,
क्षेत्रिकस्यात्यये दण्डो भागाद्दशगुणो भवेत् । ततोऽर्द्धदण्डो भृत्यानामज्ञानात् क्षेत्रिकस्य तु ॥ क्षेत्रिकस्यात्यये कृषौबलभागापहरणे धान्यापहारी शस्यापहारी त्वेकादशगुणं दण्ड्य इति रत्नाकरः ।
१ ग छिनाईपादद्दय ।
For Private And Personal Use Only