________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स्तेय दण्डः ।
१३७
नारायणस्त्वाह वधस्ताडनादिर्ब्राह्मणादिद्रव्यत्वे त्वङ्गछेदादौति। हर्तृहारकस्वामिगुणापेक्षया सुभिक्षदुर्भिक्षकालापेक्षया चेति मिताक्षराकारः । कुम्भसङ्ख्या विसम्बादोऽप्येवमेव सम्बादनीयः । शेषे च दशकुम्भाधिकन्यूने— तस्य च तद्धनमिति स्वामिनो यदपकृतं तद्दाप्य इत्यर्थः ।
-मनुः,—
ANA
Acharya Shri Kailassagarsuri Gyanmandir
मनूक्तमेकादशगुणं दण्डदानं स्वामिनो हृतधान्यदानश्च प्रथमधान्यचौर्य्यविषयम् । बार्हस्पत्ये तु स्वामिने दशगुणं धान्यदानं राज्ञश्च हृतद्विगुणदण्डदानं चौर्या - भ्यास विषयमित्यविरोध इति रत्नाकरः ।
तथा,
परिपूतेषु धान्येषु शाकमूलफलेषु च । निरन्वये शतं दण्ड्यः सान्वयेऽर्द्धशतं दमः ॥
१ ग राजे ।
-
परिपूतेषु अपासितकल्केषु निरन्वये रक्षकरहित इति कल्पतरुः । ग्रहणहेतुप्रौत्यादिश्रन्ये इति रत्नाकरः । उभयच हरण इति । तद्द्रव्यसम्बन्धयोग्यतापादकं ज्ञातेयादिकमन्वयस्तमभिधाय यत्र ग्रहणं न भवति तन्निरन्वयं विपरीतं सान्वयमिति नारायणः ।
अत्र मनौ एकादशकुम्भाधिके वधाभिधानं तदूने एकादशगुणदण्डविधानञ्च गृहधान्यहरणविषयम् । इदन्तु शतदण्डाभिधानं खलस्थधान्यविषयमिति रत्नाकरः । एवमेव कुल्लूकभट्टः ।
For Private And Personal Use Only