________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६
दण्डविवेकः ।
तथा-चतुर्भिः सेरिकाभिश्च प्रस्थ एकः प्रकीर्तितः ॥ तत्र हेमाद्रिः,- सेरिका कुडवः ।
तथा कल्पतरुः, सेरिका कुडवः स च हादशप्रसूतिपरिमितः।
द्वादशप्रमृतिभिः सेरिका तच्चतुष्टयं प्रस्थ इति समयप्रकाश-रत्नाकर-स्मृतिसागरेधप्युक्तम् ।
तथा—भूपालपद्धतौ प्रमाणस्थपुरुषस्य प्रमाणस्थकरचरणस्य द्वादशप्रस्मृतिभिः कुडव उत्तरोत्तरं चतुर्गणाः प्रस्थाढकद्रोणा भवन्ति। ततश्चतुःषष्ट्या कुडवैोण इत्युक्तम्। एवमेव कल्पतरुकारः। यत्त पठन्ति,
पञ्चकृष्णलको माषस्तैश्चतुःषष्टिभिः पलम् । हात्रिंशता पलैः प्रस्थो मागधेषु व्यवस्थितः ॥
आढकस्तैश्चतुर्भिस्तु द्रोणः स्याच्चतुराढकः । तथा-सर्वेषामेव मानानां मागधं श्रेष्ठमुच्यते ॥
तदेतन्मागधमात्र इत्याहुः। तन्न, गोपथब्राह्मणसम्बादित्वेन साधारण्यौचित्यात् मागधेष्ठिति व्यवहरणपरम्।
एवञ्च श्रेष्ठतापि न परिमाणाधिक्यात्, अपि तु वेदमूलकत्वादिति ध्येयम्।
इह प्रकृतमनुवाक्ये वधस्ताडनमङ्गछेदो घातनमिति त्रिरूपः। स च हर्तृस्वामिगुणवत्त्वागुणवत्त्वापेक्षया व्यवस्थित इति कुल्लूकभट्टः।
१ क समयप्रदोप-|
२ घ पुस्तके व्यवहार-।
For Private And Personal Use Only