________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तेयदण्डः ।
१३३
यद्यप्येतबन्धिभेदमुपक्रम्य श्रूयते तथाप्युतक्षेपकेऽपि द्रष्टव्यं इयोस्तुल्ययोगक्षेमत्वात् दयमेकोक्त्या निर्देशात् । अतएव याज्ञवल्क्यः ,
उत्क्षेपकग्रन्थिभेदौ करसन्दशहीनको ।
कायौं द्वितीयेऽपराधे करपादैकहौनकौ ॥ करपादैकेति,
उत्क्षेपकग्रन्थिभेदकयोरेकं करमेकं पादच्च छिन्द्यादित्यर्थः ।
अत्र मिताक्षराकारः- एतद्दचनमुत्तमसाहसप्राप्तियोग्यापहारविषयम्। तदङ्गछेद इत्युक्तो दण्ड उत्तमसाहसः ।
इति नारदवचनादित्याह । तच्चिन्त्यं, तन्मल्याद्दिगुणो दण्ड इत्यादौ साहसप्रकरणौये वाक्ये प्रथमसाहसादिसामान्यदण्डविधानमपहारव्यतिरिक्तविषयमिति स्वोक्तिविरोधात् ।
विमांसविक्रयादावसाहसेऽपि याज्ञवल्क्येन करादिछेदस्य विधानात्। नारदवचनस्य विषयान्तरेषु चरितार्थत्वात् तस्य सामान्यमुखप्रवृत्तत्वेन दण्डविशेषानवरुद्धविषयकत्वाच्च ।
तथाहि तदङ्ग साहसकरणभूतमङ्गमिति सर्वेषु निबन्धेषु व्याख्यातम् । न चोतक्षेपकग्रन्यिभेदौ सन्दंशमात्रसाध्यौ न वा पादस्य तत्रोपयोगो दण्डसमुच्चयश्च बचनाभावेऽनुबन्धगौरवाद्यभावे च दुर्वच एव प्रमाण
For Private And Personal Use Only