________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२
दण्डविवेकः।
अथ ज्योतिर्विदो दण्डमाह। बृहस्पतिः,
ज्योतिर्ज्ञानं तथोत्यातमविदित्वा तु ये नृणाम् । 'श्रावयन्त्यर्थलाभेन विनेयास्तेऽपि यत्नतः ॥ अर्थलाभेनेति वचनादर्थानुसारौ दण्डः ।
अथ रजकदण्डः। तत्र मनुः,शाल्मले फलके सूक्ष्मे निर्णिज्यानेजकः शनैः ।
न च वासांसि वासोभिनिहरेन विवासयेत् ॥ शाल्मले शाल्मलिदारुमये, सूक्ष्मे महणे। निर्णिज्यात् प्रक्षालयेत् । नेजको रजकः, तथा वस्त्रे बड्वा वस्त्रान्तरं निर्णजनस्थानं न नयेत् । न विवासयेत् न विपरीतमाच्छादयेत् परवस्त्रेण परविनियोगं न कारयेदिति यावदित्यर्थ इति रत्नाकरः।
नारायणस्तु न निहरेन्न परिवर्त्तयेत् न च विवासयेन चिरं स्थापयेदित्याह।
एवञ्चात्र वैपरीत्याचरणादण्डभाग्भवतीति तात्पर्यमिति रत्नाकरः। अत्र मत्स्यपुराणम्,वासांसि फलके सूक्ष्म निर्णेज्यानि शनैः शनैः। अतोऽन्यथा यः कुवात दण्डः स्याद्रप्यमाषकम् ॥
१ घ पुस्तके व्याश्रयन्ति । २ मूले - न च वासयेत् ।
For Private And Personal Use Only