________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तेयदण्डः ।
१११ द्यूतमण्डले ससभिके जितमित्यपि तत्परमेव तथैव राजांशपरिकल्पनात् ।
एवं राजादेशं विना यः स्वेच्छया द्यूतं प्रवर्त्तयेत् स तत्र जितमपि न प्राप्नुयात् न खल्वजिह्माः कितवा राजबलं विना शक्त्या दापयितुमिति नारदौयपादोनश्लोकवाक्यार्थः।
एवं स्थिते यस्मिन् राजव्यापारं विना जितोप्यर्थः प्राप्तुमशक्यो राजा च भृतिं विना न व्याप्रियत इत्यन्वयव्यतिरेकाभ्यामवकृतमतो राजभागं परिकल्प्य राजाज्ञामादायैव प्रवर्तितव्यमिति वाक्ययोरेकवाक्यतया तात्प
ार्थों गम्यते। __ यच्च नारदीयवाक्यप्रतीके दण्डः श्रूयते तत्र यथा तरिमत्यां नद्यां तरशुल्कभिया बाहुभ्यामुत्तरतस्तथा प्रकृतेऽपि राजदेवखण्डनमेव दण्ड्यमानस्यापराधो न त्वन्यत्।
बाहुभ्यामुत्तरन् पणशतं दण्ड्य इति वशिष्ठवचनेनैकमूलकत्वात् तस्माद्राजाज्ञां विना प्रवर्त्तितं द्यूतं वा ततो जयो वा न सिध्यति तत्सिद्धावपि पराजितं न लभ्यते इत्येवमाद्यर्थपरिकल्पने वाक्यस्यादृष्टार्थत्वं स्यात् ।
तस्माद्राजदण्डमगणयित्वा स्वयं जितार्थसाधनमध्यवसाय राजाज्ञां विनापि कृते द्यूते परिपणितं पराजितेन देयं, यदि तवाक्षा हिरभ्यस्ताः पतन्ति यदि वा मन्मेषस्त्वन्मेषादपसरति तदा शतन्ते ददामोति स्वरसतः प्रकृतिस्थाभ्युपगमेऽपवादकाभावादिति।
For Private And Personal Use Only