________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः ।
__ एवं क्षत्रियादिकर्तृके बधे व्यवस्थामभिधाय पारिशेष्यात् ब्राह्मणकर्त्तके तामाह ।
क्षत्रियबध इत्यादि। ब्राह्मणस्य क्षत्रियबधे गोसहसवृषभादिकं दण्डः।
वैश्यबधे गोशतवृषभादिकम् । शूद्रबधे गोदशकसषभादिकमित्यर्थः।
तथा आत्रेयौव्यतिरिक्तस्त्रौबधे धेन्वनडहव्यतिरिक्तगोबधे च शूद्रवत्। आयौबधे धेन्वनडुहबधे च क्षत्रियबधवत् । हंसभासादौनां बधे शूद्रबधवद्दण्ड इति रत्नाकरः।
एवञ्च ब्राह्मणादीनां मध्ये यो यस्य क्षत्रियशूद्रयोर्बधे दण्डः स एव तेनात्रेय्या बधे देय इति गम्यते।
अत्र परकीयाणामेषां बधे हन्तुः-तत्स्वामिने तत्प्रतिनिधि-तन्मूल्ययोरेकतरदानमपौति दण्डपारुष्यप्रकरणे स्फुटम् । अव मनुः
हस्त्यश्वरथहन्तंश्च हन्यादेवाविचारयन् । अविचारयन् तथाविधकर्माणि निश्चिते अविलम्बमानः।
अब मर्मघाति-तदघातिषु प्रहत्तषु विशेषमाहवृहस्पतिः।
एकस्य बहवो यत्र प्रहरन्ति रुषाऽन्विताः। मर्मप्रहारदो यस्तु घातकः स उदाहृतः॥ मर्मघातिनमेतेषां यथोक्तं दापयेइमम् । रारम्भकृत् सहायश्च दोषभाजस्तदीतः ॥
२ क ख ७ पुस्तकत्रये आरम्भकः ।
१ ख ग हन्वा ।
For Private And Personal Use Only