________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुष्यमारणदण्डः ।
गोबधश्च व्याख्यातोऽन्यत्रात्रेच्या धेन्वनडहोरन्ते चान्द्रायणं चरेत्। आत्रेय्या बधः क्षत्रियबधेन व्याख्यातः। हंसभास-बहिण-चक्रवाक-वलाका-काकोलूक-मण्डक-नकुलाहि-खञ्जरौट-वर्धनकुलादीनां बधे शूद्रवत् ।
वैरनिर्यातनार्थमिति यो येन हन्यते स तमवश्यं हन्ति, अतः प्रायश्चित्तं कुर्यात् । तथा मति नासौ तेन हन्यत इति तन्निर्यातनं भवतीत्यापस्तम्बतूचे कपर्दिभाष्यम् ।
एवञ्चापस्तम्बौयेन समं बौधायनीयस्यैकरूपत्वात् । अथोदासीनं क्षत्रियं हत्वा पूतो भवतीत्युशनःसूत्रसंवादाच्च । यद्यपि प्रायश्चित्तपरत्वमस्य प्रतीयते ।
तथापि राज्ञ इति लिङ्गात् दण्डपरत्वस्यापि प्रतौतेः प्रायश्चित्तरूप एवायं दण्डः। अभिगमदूषिताया ब्राह्मण्या यथोक्तशिरोमुण्डनादिवत् ।
अतएव कामधेनौ धर्मपादे चार्थपादे च तुरीयांशे वचनमिदमवतारितम्। कल्पतरौ तु प्रायश्चित्तकाण्डव्यवहारकाण्डयोरवतारितम् ।।
आत्रेयौ ऋतुमतौ स्त्री। रजस्वलामृतुस्नातामायोमाहुरचये यदपत्यं भवतीति वशिष्ठदर्शनात्।
अविगोचजा चाचेयौ। अत्रिगोत्रां वा नारौमिति विष्णुस्मरणादिति मिताक्षरा।
For Private And Personal Use Only