________________
Shri Mahavir Jain Aradhana Kendra
७०
www.kobatirth.org
दण्डविवेकः ।
Acharya Shri Kailassagarsuri Gyanmandir
अथ मनुष्यमारणदण्डः ।
अविज्ञाते हन्तरि' तज्ज्ञानोपायमाह याज्ञवल्क्यः, अविज्ञातहतस्याशु कलहं सुतबान्धवाः । प्रष्टव्या योषितश्चास्य परपुंसि रताः पृथक् ॥ केन महास्य कलहो जात इति मृतस्य सुतादयः प्रष्टव्या इत्यर्थः ।
प्रश्नप्रकार माह स एव,
स्वद्रव्यहत्तिकामो वा केन वाऽयं गतः सह । मृत्युदेशसमापन्नं पृच्छेच्चापि जनं शनैः ॥
बृहस्पतिः,—
हृतः संदृश्यते यच घातकस्तु न दृश्यते । पूर्व वैरानुमानेन ज्ञातव्यः स महीभुजा ॥ प्रातिवेश्यानुवेश्यौ च तस्य मित्रारिबान्धवाः । प्रष्टव्या राजपूरुषैः सामादिभिरुपक्रमैः ॥ ज्ञातस्य हन्तुर्दण्डमा बौधायनः - क्षत्रियादीनां ब्राह्मणबधे बधः सर्व्वस्वहरणञ्च । तेषामेव तुल्यापकृष्टबधे' यथाबलमनुरूपञ्च दण्डं कल्पयेत् । क्षत्रियबधे गोसहस्त्रं राज्ञ उत्सृजेत् वैरनिर्य्यातनार्थम् । शतं वैश्ये दश शूद्रे वृषभश्चाचाधिकः । श्रद्रबधेन स्त्रीबधो
२ मूले - समासन्नम् ।
१ पुस्तके कर्त्तरि । ३ मूले—वैरानुसारेण | घड पुस्तकदये तुल्यावष्टबधे ।
For Private And Personal Use Only