________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पिंगलः ॥ तप्तहेमच्छविः स्रष्टाविश्वात्माप्रीयतांमम- इति ॥ अनेनैवतु मंत्रेण धेनुदानंप्रकीर्तितम् ॥ अश्व मेधसहस्रस्य फलमाप्नोत्यसंशयम् || कुलानांचसहस्रस्यस्वर्गेनयतिगोप्रदः - इति ॥ इतिसुवर्णधेनुदानम् ॥ ॥ अथ वंध्यात्वहरंसुवर्णधेनुदानम् || वायुपुराणे । चतुर्विधाचयावंध्याभवेद्दत्सवियोजनात् ॥ वक्ष्येतस्याः प्रतीकारंतत्स्वरूपंनिबोधमे ॥ वंध्याचतुर्विधाप्रोक्ता वंध्या, काकवंध्या, स्त्रीप्रसूः मृतप्रजा - इति ॥ का कवंध्यातुकाकवदेकापत्या शेषाः स्पष्टाएव ॥ धेनुरूपविशेषमाह हेमाद्रौ कर्मविपाके । हिरण्येनय थाशक्त्यासवत्सांकारयेदृढाम् ॥ धेनुंपलेनवत्संचपादेनगुरुरवीत् ॥ यथाशक्तयेति--पलेन वातदघेंनतद धीर्धेनवापुनः - इति ॥ कर्मविपाकोक्तपरिभाषाप्रकारेण धेनुंरौप्यखरां रत्नंपुच्छेनियोज्य घंटामुभयोरपि गले बच्चा रत्नमयतिलकं ललाटेबभीयात् ॥ एतादृशींसमभ्यर्च्य पायसनैवेद्यंदत्त्वा मोदकानपूपानगुडल वणजीरकं सुवर्णदक्षिणांकंचुकंच नववेणुमयशर्पेनिधाय एकंवायनकंधेनवे अन्याभ्यः पतिपुत्रवतीभ्यो ब्राह्मणी भ्यः षडष्टौवादद्यात् ॥ ततोवेदपारगमलोलुपत्राह्मणंऋणग्रस्तं दरिद्रं कुटुंबिनमाहूयवृत्वा ॥ यथाविभवं वस्त्रालंकारादिभिः संपूज्य ततोधनुंसोमो धेनुमितिमंत्रेणसवत्सांचसंपूज्य अग्निमुपसमाधाय समिदाज्य
For Private and Personal Use Only