________________
Shri Mahavir Jain Aradhana Kendra
दान
॥१३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिसंकल्प्य गणपतिपूजनंसंक्षिप्तपुण्याहवाचनमात्रं कृत्वा गोभ्योनमंइतिसवृषभागाः संपूज्य ब्राह्मणेभ्योनम चंद्रि० इतिब्राह्मणांश्चयथाशक्तिवस्त्रालंकारादिभिः संपूज्य प्रार्थयेत् ॥ तत्रमंत्राः गावः सुरभयोनित्यंगावो गुग्गुलुगंधिकाः ॥ गावः प्रतिष्ठा भूतानांगावः स्वस्त्ययनं महत् ॥ अन्नमेवपरंगावादेवानांहविरुत्तमम् ॥ पा वनंसर्वभूतानांरक्षंतिचवर्हतिच ॥ हविषामंत्रपूतेन तर्पयंत्यमरानपि ॥ महर्षीणां तृचहाणांगावोहोमेप्रतिष्ठि ताः ॥ सर्वेषामेवभूतानां गावः शरणमुत्तमम् ।। गावः पवित्रं परमं गावो मंगलमुत्तमम् । गावः सर्वस्यलोकस्यगा वोधन्याः सवाहनाः ॥ नमोगोभ्यः श्रीमतीभ्यः सौरभेयी भ्यएवच । नमोत्रह्मसुताभ्यश्चपवित्राभ्योनमोनमः ॥ घृतक्षीरप्रदागावोघृतयोन्योघृतोद्भवाः ॥ घृतनद्योघृतावर्तास्तामे संतुसदागृहे ॥ इतिगाः संप्रार्थ्य वृषभं प्रार्थयेत् ॥ धर्मस्त्वंवृषरूपेणजगदानंदकारक || अष्टमूर्तेरधिष्ठानमतः पाहिसनातन ॥ इतिवृषभंप्रार्थयेत् ॥ ततः सलिलतिलकुशानादाय अद्येत्यादिममसमस्तपापक्षयेत्यादि पठित्वाविष्णुसायुज्यावाप्तिकामोवृ ॥१३॥ षाधिकशतंगाः धेनूपस्कराः सहिरण्यदक्षिणायुताः रुद्रदेवतास्तन्मूल्योपकल्पितनिष्क्रयरजतमुद्रावानानानामगोत्रे भ्यो ब्राह्मणेभ्योदातुमहमुत्सृजेनममेति । तेनभगवान्परमात्मा श्रीपरमेश्वरः प्रीयताम् तत्सद्ब्रह्मार्पणमस्तु ॥
For Private and Personal Use Only