________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देशवेश्यासमोनृपः ॥ दशसूनासहस्राणियोवाहयतिसैनिकः ॥ तेनतुल्यः स्मृतोराजातस्माद्घोरः प्रतिग्रहे । - इति ॥ इत्यधार्मिकराजविषयानिंदा ॥ तथाचतत्रैवलिखितम् । येषांनविषयेप्रीतिर्यज्ञेयज्ञपतेर्हरेः ॥ यत्रये भ्रूभुजातेषामेतत्सुनोदितं फलम् ॥ येषांपापंडिसंकीर्णराष्ट्रनबाह्मणोत्कटम् ॥ एतेनासहस्राणां दशानां भोगि नोनृपाः ॥ येषानयज्ञपुरुषः कारणं पुरुषोत्तमः । तेतुपापसमाचाराः सूनापापौघभागिनः - इति ॥ अष्टा राज्ञः प्रतिगृहोननिंदितः । अतएवोक्तंछंदोगशाखायाम् । प्राचीनशालादीन्महामुनीनराजप्रतिग्रहेप्रवर्तते । - इति ॥ अश्वपतिनामकेनराज्ञादोषाभावउपन्यस्तः । नमस्तेनाजनपदेनकुर्यान्नचमद्यपः ॥ नानाहिताशि र्नाविधान्नस्वैरीस्वैरिणीकुतः - इति ॥ याज्ञवल्क्यवचनेपि । राजप्रतिग्रहनिंदायांलुब्धस्योच्छास्त्रवर्तिनः- इतिरा जविशेषणाददुष्टराजप्रतिग्रहो ननिंदित इतिगम्यते ॥ तथा नारदोऽपि । श्रेयान्प्रतिग्रहोराज्ञांनान्येषांत्रा ह्मणादृते ॥ ब्राह्मणश्चैवराजाचदावप्येतौ तत्रतौ ॥ नैतयोरंतरंकिंचित्प्रज्ञाधर्माभिरक्षणे ॥ शुचीनामशु चीनांचसन्निवेशोयथांभसाम् ॥ समुद्रसमतांयातितद्राज्ञांधनागमः ॥ यथाग्नौ संस्थितंचैवशुद्धिमायातिकां ।। चनम् ॥ एवंधनागमः सर्वः शुद्धिमायातिराजनि - इति ॥ राजप्रतिग्रहे प्रायश्चित्तमाह वृद्धहारीतः । राज्ञः
For Private and Personal Use Only