________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
तिलाः स्वर्णमयादेवदुरितक्षयकारकाः ॥ विष्णुप्रीतिकरानित्यमतः शांतिंप्रयच्छ मे ॥ अथसामान्यतः सर्वधान्य मंत्रस्तु । धान्यंकरोतिदातारमिहलोकेपरञ्च ॥ तस्मादस्यप्रदानेनममसंतुमनोरथाः - इति ॥ ससुवर्णतिल || पात्रदानमंत्रस्तु | तिलाः पुण्याः पवित्राश्चसर्वपापहराः शुभाः ॥ शुक्लाश्चैवतथाकृष्णाविष्णुगात्रसमुद्भवाः यानिकानिचपापानि ब्रह्महत्यासमानिच ॥ तिलपात्रप्रदानेनतानिनश्यतु मेसदेति ॥ निष्पावदानमंत्रस्तु ॥ निष्पावानिर्मिताः पूर्वलोकानां हितकाम्यया । तस्मादेषांप्रदानेनममपापंव्यपोहतु - इति ॥ प्रियंगुदानमंत्र स्तु । प्रियंगवांप्रिया यस्मादमेवहव्यसाधनाः । तस्मादेषां प्रदानेनप्रीणातुपुरुषोत्तमः - इति ॥ श्यामाकदा नमंत्रस्तु । श्यामाकास्तुसदापुण्याः पवित्रायज्ञसाधनाः ॥ अतस्तेषांप्रदानेनपावकोवरदः सदा - इति ॥ को अवदानमंत्रस्तु । कोद्रवानिर्मितादेवैः प्राणिनांजीवनायवै ॥ तस्मादेषांप्रदानेनप्रीणातुपुरुषोत्तमः - इति ।। लं कदानमंत्रस्तु । वातप्रवर्धकालंकाबलदाः पुष्टिकारकाः ॥ प्राणिप्रीतिकरानित्यमतः शातिंप्रयच्छ मे ॥ या वनालदानमंत्रस्तु । यावनालाः प्रीतिकराः कांतिपुष्टिबलप्रदाः । तस्मादेषां प्रदानेन सस्यपूर्णगृहंमम - इति ॥ अथमसूरिकादानमंत्रस्तु ॥ सवल्कलामसूरास्तुदुरितक्षयकारकाः ॥ तस्मादेषांप्रदानेन विष्णुः प्रीतिकरोमम
For Private and Personal Use Only