SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३६ दाना. अनिका च तयो!जनद्रव्याणि परिवेषयति. अथ देवदत्तस्तामनिकां देवांगनामिवातीवरमणीयरू पां चरणाहितमंजीरकिंकिणीनादैश्च सुप्तमपि मदनं जागरयंती दृष्ट्वा मकरध्वजपावश्यं गतः सन् भोजनास्वादमपि न झातवान्. योजनानंतरं स निजगृहे समागत्यैकं विजबरं जयसिंहपार्श्वे प्रेष. यित्वा तां कन्यां मार्गयामास. तदा जयसिंहेनोक्तं नृनमयं देवदत्तो गुणवान रूपवान द्रव्यवान् स. कलकलानिपुणः कन्यायोग्य एव वरोऽस्ति, परं सोऽन्यनगरवास्तव्योऽस्ति तेन तस्मै नगिनी दातुं मे मनस्युल्लासो न भवति, चेदसौ मम गृहजामाता नवेत्तदाहं तस्मै मम नगिनीमर्पयामि. दिजे. न सर्वोऽप्ययमुदंतो देवदत्ताय निवेदितस्तदा दणं विमृश्य देवदत्तेनोक्तमेकपुत्रजन्मावधि नूनम त्राहं स्थास्यामि. ततो हृष्टेन जयसिंहेन तेन सह निजपुत्री परिणायिता. एवं स देवदत्तोऽनिकाप्रे मपविधस्तत्रैव स्थितो निजसमयं सुखेन गमयांचकार. एवं बहुकालानंतरं तस्य पितुःखः समा यातो यत हे पुत्र थावां वृछौ त्वदिरहेणात्यंत दुःखीतौ स्वः, केवलमेकवारमेवावयोर्जीवतोस्त्वह दनेदर्शनतस्त्वमानंदोदधिमुल्लासय ? नोचेदयावां त्वहिरहातुरावेव यमराजदासत्वमाप्स्यावः, श्या | दिकरुणारसोपेतलेखवृत्तांत वाचयतस्तस्य देवदत्तस्य नयनान्यामश्रुजलविंदवो भूमौ पतितास्तदा । For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy