________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३७
दाना.) हे राजन् तव शरीरे सप्त महारोगाः समुत्पन्नाः संति, तेन तव रूपं च नष्टमस्ति. चक्रिणोक्तं युवा
न्यां तत्कथं ज्ञातं ? तदा तान्यां निजदेवरूपं प्रकटीकृत्येंद्रकृतप्रशंसादिवृत्तांतो निरूपितः, तत श्रुत्वा चक्री वैराग्यमासाद्य पुत्राय च राज्यं दत्वा विनयंधरसूरिपार्श्व चारित्रं जग्राह. षष्टपारणके च शीतलानप्राप्तितोऽस्य शरीरे ज्वरादिषझरोगाः प्रादुतास्तथापि देहममत्वरहितोऽयं सनत्कुमारराजर्षिर्म नसाप्यदूनो विविधतपांसि कुर्वन शुद्धं चारित्रं पालयामास. क्रमेण तपोपलेन तस्य खेलौषध्यादिमहालब्धयः समुत्पन्नास्तथापि गतदेहममत्वोऽसौ महर्षिर्निजरोगचिकित्साकरणेनुन बनव. तः सौ. धर्मेण पुनः सन्नामध्ये शरीरनिःस्पृहताविषये सनत्कुमारराजर्षः प्रशंसा कृता. तदा पूर्वोक्तावेव दे. वौ वैद्यरूपमाधाय तस्य पार्श्वे समागत्य तबरीरगतरोगचिकित्सार्थ प्रार्थयामासतुः, तदा मुनिनोक्तं यदि युवां जावरोगध्वंसने समझे तदैव मे चिकित्सां कुरुतं, तत् श्रुत्वा तान्यामुक्तं तद्विषये आवां नैव समर्थो. तदा मुनिना तयोर्विस्मयकरणार्थ निजकुष्टविनष्टांगुली निजमुखनिष्टीवनेन स्पृष्ट्वा सुवर्णवर्णी कृता. तद् दृष्ट्वा ताभ्यां निजरूपं प्रकटीकृत्ये ऽकृतप्रशंसादिवृत्तांतः कथितस्ततो मुनि नत्वा तो निजस्थाने गतो. सप्तशतवर्षानंतरं ते सर्वेऽपि रोगाः स्वयमेव मुनिशरीरतो देरी नृताः, एवं
For Private and Personal Use Only