________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
दाना- पुष्करदुष्करउष्करकारकेतिपदत्रयीमुच्चरंतस्तस्यानिर्वचनीयब्रह्मचर्यपटहोद्घोषणां कुर्वत श्व सन्माननयामासुश्च. स्थूलनद्रोऽपि चिरदृष्टगुरुचरणारविंदयो रोलवायितशिरा नमस्कारं कृतवान् . ततोऽयं नि
खिलब्रह्मचारिराजहंसोपमः स्थूलभद्रवाचंयमो निजासनकमलमलंचकार. अथ स्थूवनप्रति गुरुद. त्तबहुसन्मानादि विलोक्येानल बुष्टहृदयास्ते त्रयोऽपि मुनयो घनागमवचनामृतरसैः मिच्यमाना थप्युपशांतजावं न प्राप्ताः, विचारितं च तैर्गुरखोऽपि नूनं मोहोटसुनटप्रेर्यमाणा मंत्रिपुत्रवेन तस्मै बहुसन्मानादि चक्रुः, मोहपटलावतलोचनैर्गुरुनिः किल पम्साहारोपेतचिरपरिचितवेश्यागृहस्थितिः प्रत्यददूषणात्मकापि यजुत्तमोत्तमगुणगणोपेता दृष्टा तन्नूनं तेषां पदपातमेव सूचयति. अथ चेत् परसाहारपूर्वकवेश्यागृहस्थितितो शुष्करऽष्करदुष्करकारकेति त्रिपदात्मका पदवी लन्यते तर्हि व. यमप्यागामिचतुर्मास्यां तस्या एव कोशाया गृहे स्थिति करिष्यामोऽधिगमिष्यामश्च तां महापदवीं गुरुन्य इति निश्चित्य ते त्रयोऽपि निजहृदयगतेानलं मौनजस्मनाबाद्य चतुर्मासदणं प्रतीक्षमाणाः स्थिताः, क्रमेण तन्मनोऽभिलाषरज्ज्वाकृष्टेव चतुर्मास्यपि निकटं संप्राप्ता, तदा तेषां त्रयाणां मध्यादेकेन गतचतुर्मास्यां सिंहगुहानिवासिसाधुना पूर्वकृतान्यासवशात्स्वं वेश्यामृगीप्रति सिंहमिव
For Private and Personal Use Only