SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना स्वामी बैलोक्ये पितामहोपमो जातः, पितुः पिता स पितामहः कथ्यते. अय श्रीआदिनायस्य त्र योदशवपूर्वकं चरित्रं व्याख्यायते, यया-हाल जंबूढीपे पश्चिममहाविदेहक्षेत्रे दितिप्रतिष्टं नाम नगरं. प्रसन्नचंडराजा राज्यं करोति, तव नगरे राजमान्यो धननामा सार्यवाहः परिवसति, स | च दाताशिरोमणिः परोपकारनिपुणो महाधनवांश्च. तेनैकदा नगरमध्ये नद्घोषणा दापिता, वसंतपुरंपति वयं गमिष्यामो यस्य कस्याप्यागमनेहा गवेत्तदा सोऽस्मत्सार्थे सुखेनायातु. अन्यच्च येषां केषामपि संबलादि न स्यात्त मत्साकाशासंबलादिवस्तूनि गृहंतु. श्यादि कथिते सति बहवो लोकास्तत्सार्ये समागमयितुमारब्धाः, तस्मिन्समये श्रीधर्मघोषसूरयोऽपि धनसार्थवाहसमीपे समागताः, सार्थवाहेन गुरवो वंदिताः, पृष्टं च स्वामिन् किमर्थ समागताः? गुरुजिः प्रोक्तं वयमपि वसंतपुरे भवत्सार्थे समागमिष्यामः, इति गुरुवचः श्रुत्वा सार्थवाहेनोक्तं हे स्वामिन् मम जाग्यं महत्संजातं, इत्युक्त्वा तेन स्वसूपकाराय प्रोक्तं गुरुनिमित्तं नोजनादिचिंतां कुरु? गुरुणा प्रोक्तं तद्भोजनमस्माकमकल्पनीयमस्ति. अथास्मिन्प्रस्तावे तत्र सार्थवाहसमीपे केनचित्सेवकेनाम्राण्यानीय दौकितानि. तान्याम्राणि स For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy