________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशब्राह्मणभाष्यम् ।
११३
कैतवी ध्वजाः तदादौनि निःकारणं प्रज्वलन्ति । अश्वानाञ्च बालधोषु अङ्गाराः चरन्ति । पतन्ति तानि दण्डादिभिः श्रताड़ितानि चम्माणि चम्मेयुक्तानि भेर्य्यादीनि कनिकन्दन्ते कुर्वन्तोति । एवमादीनि तान्येतानि सर्वाणि बिष्णुदेवत्यान्यद्भुतानि विष्णुदेवत्यानि प्रायश्चित्तनिमिश्तानि भवन्तौति । इदानीं त तुदुरितापूर्वनिवर्हण साधनं होमं सविध्यन्तं दर्शयति- इदं विष्णुः । स्थालीपाकम् । स्थालीपाक विधानमनतिक्रम्य चरुं श्रपयित्वा इदं विणुविचक्रम इत्यनया ऋचा हुत्वा पुनर्विष्णवे स्वाहेत्यादिभिः पञ्चभिर्मन्त्रैः पञ्चभि राज्याहुतिभिरभिजुहोति जुहुयात् । ततस्तन्य नातिरिक्तप्रायश्चित्तार्थं व्याहृतिभिर्हत्वा श्रथ वाचोदस्यां वैष्णव्यामृचि सामाष्टोत्तरशतं गायेत् । शुद्ध भूतले होमं कुर्य्यादिति दर्शयितुं भू-शडिहेतु दर्शयतिखननाद्दहनात् । खननात् कुद्दालादिभिः । दहनादग्निना । श्रभिमर्शनान्मन्त्रपूर्वकं हस्तन गोभिराक्रमणेन च इत्यतः खननादिभिश्चतुर्भिर्भूमिः शुध्यन्ते । तथा पञ्चमागोमये नोपलेपनाद्भमिः शुधत इत्यनुषङ्गः । सामगानानन्तरं कुर्य्यादित्यत्वाह–सम्भारान् । ततः सम्भारान् प्रागुक्तान् दर्भादोन् होमसम्भारान् प्रदक्षिणं यथा भवति तथा तोयसमीपदेयमानीय ब्राह्मणानुपवेश्य स्वस्तिवाच्य पुण्याहवाचनं कृत्वा कम्मसमापयेदिति शेषः । सम्भारम्यां मध्ये कस्य उपहवनौ तस्याभ्य ुचणाच्छ विहेतुत्वेन विधत्ते - एतैः सम्भारैः एतैर्ययोक्तर्यदुपस्पष्टमुपहतं तद्दव्य मभ्य क्षेत् स्वस्तिदाविशस्पतिरित्याद्यैः स्वस्तिवाचन मन्त्र रथोभ्य ुचणा
२
For Private and Personal Use Only