________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशब्राह्मणभाष्यम् ।
प्रविशन्ति । तो यश्च रुधिराणि स्रवन्ति । आकाशे राज. कुलं पश्यति गन्धर्वनगरादिक स्थितं दृश्यत इत्यर्थः । इत्येवमादीनि तान्येतानि सर्वाणि वायुदेवत्यान्यन तानि प्रायश्चित्तानि भवन्ति । तोतुदुरितापूर्वनिबह साधनं होम विध्यन्तसहितं दर्शयति-वात आवात भेषजं इत्यतया ऋचा। अन्यत् पूर्ववद्याख्य यम् ॥ ८॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाश षडविंशवाह्मणाख्ये द्वितीयवाहाणे
षष्ठप्रपाठके अष्टमखण्डः ।
अथ नवमखण्डः । सोमनिमित्त कविशेषं होमविशेषे दर्शयितु तदङ्गत्वेन निरीक्षणपूर्वकमावर्तनं दर्शयति-स दिवम् । स दिवमन्वौच्यावर्तते। दिवो वक्ष्यमाणनिमित्तानां च सोमदेव. वादिदानों निमित्तविशेषान् दर्शयति-अथ यदास्य । अथ पुनर्यस्य गोचर यदा तारावर्षाणि मचत्रष्टयः पतन्ति जायन्त इत्यर्थः। उल्काच पतन्ति । दिशो धूमायन्ति निनिमित्त धूमयुक्ता इव प्रदृश्यन्ते धूमकेतवः उपतिष्ठन्ति तथा गवां शृङ्गेषु विषाणेषु धूमा जायन्ते गवां स्तुत्यर्थः । तथा ता एवं दह्यन्त्यो ज्वालारूपा इव दृश्यन्त इत्यर्थः किञ्च अन्तरिक्ष केतवो तेषु रुधिरं सवति न पयः। किञ्च प्रत्यर्थ प्रतिबहुलं हिमं पततीत्येवमादौनि सर्वाण्य तानि सोमदेवत्यानि निमित्तानि भवन्ति । इदानों तई तुटुरिता.
For Private and Personal Use Only