SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षडविंग ब्राह्मणभाष्यम् । १०१ सामवेदाख्यः उच्छासः ऋगादब स्त्रयो वेदा गतिः पादा इत्यर्थः । एवंविधा या स्वाहा सा एवं स्वधा नान्या तथा वषटकार : सेवा स्वाहा देवेषु देववनेषु वषट्कारभूता सतौ प्रयुज्यते सैव तथाभूता पितृयज्ञेषु प्रयुज्यते इत्याशयनिरूपणम् । शकटौमुखी पृथिवी मधिष्ठायान्तरिक्षेण मार्गेण विपति स्वाहा सर्व स्वर्गादिफलं व्याप्नोतीति । तस्याः स्वाहाया अग्निदेवतम् अग्निरेव देवतारूपं ब्राह्मणः तत्प्राधान्यात् । प्रजापतये इत्यत्त्रोऽन्यः कश्चित् सर्वाणि भुवनानि परिभवितुं न शक्नोति । अतस्ते तुभ्यं वयं यत्कामा यत् फलं कामयमाना जुहुमः तत् फलं नो अस्माकम् अस्तु किञ्च वयं रयीणां धनानां पतयः स्याम भवेम स्वाहेत्यनेन स्वाहायाः प्रजापतिपरिग्रहो दर्शितः । यथोक्तरूपां स्वाहां प्रशंसति-तस्यानु बप्तिम् । तस्याः स्वाहा कारपरिग्रहेण तृप्तस्य प्रजापतेः हृप्ति मनु यजमानः प्रजया पुत्रपौत्रादिकया पशुभिर्गवादिभि रत्नाद्येन तेजसा ब्रह्मवर्चसेन तृप्यति इति शब्दोऽध्यायपरिसमाप्ति द्योतनार्थः ॥ ७ ॥ इति श्रसायणाचाय्यविरचिते माधवीये वेदार्थप्रकाशे षड्विंशब्राह्मणाख्ये द्वितीयब्राह्मणे पञ्चमप्रपाठके सप्तमखण्डः । इति पञ्चमप्रपाठकः । For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy