SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षड़विंशब्राह्मणभाष्यम् । ८८ ऽम्नी जुहोतीति यत्तदेव प्रातः सवनम् । प्राप्तव्यसाम्यात्। एवमन्यदपि । यन्मार्जयते सोऽस्यावभृथ इति तत्रैवोदयनीयादि सम्पत्तिं दर्शयति-यदन्नाददाति अनादि हवींषि अदना ददाति यत्ने नोदयनीयस्य तदाख्यस्य कर्मण उदवसानीयस्य च समात्य कृतं भवतीत्यर्थः । अग्निहोत्र एव मन्यने अनुत्पादे विकल्प न प्रायश्चित्त दर्शयति-अथ यस्याग्निः। अथ पुनर्यनस्य यजमानस्य अग्निमथ्यमानो न जायेत तर्हि अन्य माहृत्य लौकिक मग्नि मानीय अन्यस्मिन्नवकाशे आहवनौयाग्नौ व्याहृतिभिर्जुहुयात् । लौकिकाग्ने रप्यभावे ब्राह्मणस्य हस्त जुहुयात् । एवमन्यदपि व्याख्येयम् । तथाश्वलायन:-अग्निहोत्रकाले अग्नावजाय माने अन्यमानीय जुहुयात् पूर्वालाभे उत्तरोत्तरं ब्राह्मणपाण्यजकणदर्भस्तम्बाप्स इत्याद्यग्निहोत्रे । स्वय' होमस्तुत्यर्थ गौण कत्तुं पुरःसरमुत्तरोत्तराख्यान् कर्तृन् दर्शयति । अन्यः शत अन्य : शिथादिव्यतिरिक्त: । शताहुताच्छतशी हुतान् कृतान् होमा नपेक्ष्याशिष्य उक्त शिष्य ण कृत एको होम वरः उत्कृष्टः । एव मन्यान्यपि व्याख्येयम् । नन्वे वं किन्तत इत्याह-स्वयं होता। यत एवमात्मकतो होमः प्रशस्तः तस्मात् स्वयं होता। देवाना माहाता स्वयमेव दोहीत्यग्निहोत्रार्थ पयसां दोग्धा च स्वयमेव यजमानः स्वयमेवाग्निहोत्र मुपतिष्ठेत। तत्र दक्षिणां दर्शयतिहोम्योषम् । होम्यशेष हुतावशिष्टं हविरेव दक्षिणा नान्यदित्यर्थः ययोतमग्निहोत्रं प्रगंमति-सह वा । य एवोक्त रीत्या विहान् जाननग्निहोत्रं जुहोति । एतस्य सर्वयं For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy