________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Bhagavadgitā Word-Index Pt. II-A (a)
232. ऋषभ-(१) पुरुषर्षभ । (२) भरतर्षभ-(१) पुरुषेषु ऋषभः इव पुरुषर्षभः । संयो
धने विसर्गलोपः। (२) भरतेषु (भरतवंशीयेषु) ऋषभः इव भरतर्षभः । संबोधने
विसर्गलोपः। 233. ऋषि-(१) देवर्षिः। (२) देवर्षीणाम्। (३) महर्षयः । (४) महर्षीणाम् । (५)
राजर्षयः ।-(१-२) देवेषु ऋषिः, देव इव ऋषिः वा, देवर्षिः, देवर्षीणाम् इति षष्ठीबहुवचनम् । ( ३-४) महान्तः ऋषयः महर्षयः; तेषां महर्षीणाम् । (५) राजसु ऋषयः, राजानः एव ऋषयः वा, राजर्षयः ।
23 4. एक-(१) एकभक्तिः । (२) एकस्थम् । (३) एकाक्षरम् (४) एकाग्रम् । (५) एकाप्रेण ।
(६) एकान्तम् । (७) एकांशेन ।-(१) एकस्मिन् एव भक्तिः यस्य सः एकभक्तिः । (२) एकस्मिन् स्थितम् एकस्थम् । (३-७) [विग्रहपद्धतिभ्यः 'अक्षर' (२),
'अग्र' (१-२), 'अन्त' (९), 'अंश', शब्दाः क्रमेण दृष्टव्याः ।। 235. एकधा-अनेकधा-न एकधा (एकया रीत्या)। 236. एतद्-एतद्योनीनि-एताः योनयः येषां तानि । 237. एवम्-(१) एवरूपः । (२) एवंविधः ।-(१) एवं (एतादृशं) रूपं यस्य सः एवंरूपः ।
(२) एवं (एतादृशा) विधा यस्य सः एवंविधः ।
238. ऐश्वयं-(१) भोगैश्वर्यगतिम् । (२) भोगैश्वर्यप्रसक्तानाम् ।-(१) भोगाः ऐश्वर्य च
यस्यां सा भोगैश्वर्यगतिः, ताम् भोगैश्वर्यगतिम् । (२) भोगेषु ऐश्वर्ये च ये प्रसक्ताः ते भोगैश्वर्यप्रसक्ताः, तेषाम् भोगैश्वर्यप्रसक्तानाम् ।
ओ 239. ओजस्–उत्तमौजा:-[विग्रहपद्धत्यै 'उत्तम' (५) शब्दो दृष्टव्यः । 240. ओम्-ओंकार:--'ओम् ' इति रवः क्रियते यस्योचारणेन सः वर्णविशेषः ।
241. औपम्य-आत्मौपम्येन-[विग्रहपद्धत्यै 'आत्मन् ' (१९) शब्दो दृष्टव्यः ।
242. कटु-कटुम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः-(विग्रहपद्धत्यै 'अत्युष्ण' शब्दो दृष्टव्यः) । 243. कपि- कपिध्वजः-कपिः (कपिचिन्ह) ध्वजे यस्य सः। 244. कमलपत्र-कमलपत्राक्ष-(विग्रहपद्धत्यै 'अक्ष' शब्दो दृष्टव्यः)। 245. कमलासन-कमलासनस्थम्-कमलासने (कमलं एव आसनं कमलासनं, तस्मिन् )
स्थितः कमलासनस्थः, तम्। 246. कराल-(१) दंष्ट्राकरालानि। (२) बहुदंष्ट्राकरालम् ।-(१) दंष्ट्राभिः करालानि ___दंष्ट्राकरालानि । (२) बहुदंष्ट्राभिः (बहुभिः दंष्ट्राभिः) करालम् बहुदंष्ट्राकरालम् ।
242
For Private and Personal Use Only