________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Secondary Word-Units
247. कर्तु - (१ ) अकर्तारम् । (२) आदिकर्त्री । - ( १ ) न कर्तृ अकर्तृ, तम् अकर्तारम् । ( २ ) [विग्रहपद्धत्यै 'आदि' (५) शब्दो दृष्टव्यः ] ।
,
248. कर्तृत्व — कार्यकारणकर्तृत्वे - कार्यकारणयोः (कार्य च कारणं च कार्यकारणे, तयोः) कर्तृत्वम् कार्यकारणकर्तृत्वम् तस्मिन् ।
Acharya Shri Kailassagarsuri Gyanmandir
,
249. कर्मकृत् - अकर्मकृत् न कर्मकृत् ( कर्म करोति इति ) ।
250. कर्मन् - ( १ ) अकर्म । (२) अकर्मणः । (३) अकर्मणि । ( ४ ) इन्द्रियकर्माणि । (५) उग्रकर्माणः । (६) कर्मचोदना । (७) कर्मजम् । (८) कर्मजा । ( ९ ) कर्मजान् । (१०) कर्मफलम् । (११) कर्मफले । ( १२ ) कर्मबन्धनः । (१३) कर्मबन्धम् । (१४) कर्मबन्धनैः । (१५) कर्मयोगम् । (१६) कर्मयोगः । ( १७ ) कर्मयोगेन । (१८) कर्मसङ्गिनाम् । (१९) कर्मसङ्गिषु । ( २० ) कर्मसङ्गेन । (२१) कर्मसमुद्भवः । (२२) कर्मसङ्ग्रहः । ( २३ ) कर्मसंज्ञितः । ( २० ) कर्मसन्न्यासात् । (२५) कर्मानुबन्धीनि । (२६) कर्मेन्द्रियाणि । (२७) कर्मेन्द्रियैः । ( २८ ) क्षत्रकर्म । ( २९) गुणकर्मविभागयोः । (३०) गुणकर्मविभागशः । (३१) गुणकर्मसु । ( ३२ ) पुण्यकर्मणाम् । (३३) प्राणकर्माणि । ( ३४) ब्रह्मकर्म । (३५) भीमकर्मा । (३६) मोधकर्माणः । (३७) यज्ञदानतपः कर्म । (३८) वैश्यकर्म । ( ३९ ) सर्वकर्मणाम् । (४०) सर्वकर्माणि । ( ४१ ) स्वकर्मणा । - ( १ - ३ ) न कर्म (कर्मण: व्यावृत्तिः) अकर्म तस्य अकर्मणः; तस्मिन् अकर्मणि । ( ४-५ ) [ विग्रहपद्धतिभ्यां 'इन्द्रिय' (२), 'उग्र' (१) शब्दौ क्रमेण दृष्टव्यौ ] । ( ६ ) कर्मणां चोदना कर्मचोदना । ( ७-९ ) कर्मणा जातम् कर्मजम् ; तान् कर्मजान् ; सा कर्मजा । ( १०-११ ) कर्मणः फलम् कर्मफलम्; तस्मिन् कर्मफले । ( १२ ) कर्माणि बन्धनं यस्य सः कर्मबन्धनः । (१३) कर्मणा उत्पादितः बन्धः कर्मबन्धः, तम् कर्मबन्धम् । ( १४ ) कर्मणा उत्पादितानि बन्धनानि कर्मबन्धनानि, तैः कर्मबन्धनैः । ( १५-१७ ) कर्मणा योगः, कर्म एव योगः वा, कर्मयोगः; तम् कर्मयोगम् ; तेन कर्मयोगेन । ( १८ - १९ ) कर्मभिः येषां सङ्गः भवति ते कर्मसङ्गिनः; तेषाम् कर्मसङ्गिनाम् ; तेषु कर्मसङ्गिषु । ( २० ) कर्मभिः सङ्गः कर्मसङ्गः तेन कर्मसङ्गेन । ( २१ ) कर्मणः समुद्भवः यस्य सः कर्मसमुद्भवः । ( २२ ) कर्मणां सङ्ग्रहः (कर्मसु आवश्यकानि तत्त्वानि ) कर्मसङ्ग्रहः । ( २३ ) कर्मशब्देन यः संज्ञितः सः कर्मसंज्ञितः । ( २४ ) कर्मणां सन्न्यासः कर्मसन्न्यासः, तस्मात् कर्मसन्न्यासात् । (२५) (विग्रहपद्धत्यै 'अनुबन्ध' शब्दो दृष्टव्यः) । शङ्करानुमतं विवरणं तु कर्म (धर्माधर्मलक्षणम् ) अनुबन्धः (पश्चाद्भावी उद्भूतिः) येषां तानि कर्मानुबन्धीनि । ( २६ - २७ ) [ विग्रहपद्धत्यै 'इन्द्रिय' ( १०-११ ) शब्दौ क्रमेण दृष्टव्यौ ] । ( २८ ) क्षत्रस्य (स्वाभाविक) कर्रा क्षत्रकर्म । ( २९-३०) गुणकर्मणा (गुणाश्च कर्माणि च गुणकर्माणि तेषां विभागौ गुणकर्मविभागौ तयोः गुणकर्मविभागयोः; तत्पूर्वकम् गुणकर्मविभागशः । (३१) गुणप्रेरितानि कर्माणि गुणकर्माणि तेषु गुणकर्मसु । ( ३२ ) पुण्यानि कर्माणि येन कृतानि ते पुण्यकर्माणः तेषां पुण्यकर्मणाम् । ( ३३ ) प्राणानां कर्माणि प्राणकर्माणि । ( ३४ ) ब्रह्मणः (ब्राह्मणजातेः ) कर्म ब्रह्मकर्म । (३५) भीमानि कर्माणि यः कुरुते सः भीमकर्मा । ( ३६ ) मोघानि (निरर्थकानि )
243
For Private and Personal Use Only