________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Secondary Word-Units
(६-७) आदिः (प्रथमं आविर्भूतः) देवः आदिदेवः, तम् आदिदेवम्। (८) [विग्रहपद्धत्यै 'अन्त' (८) शब्दो दृष्टव्यः] । ( ९) कल्पस्य आदिः कल्पादिः, तस्मिन् कल्पादौ । (१०) जनकः आदिः येषां ते जनकादयः । (११) पुत्राः दाराः गृहाणि च आदौ येषां तानि पुत्रदारगृहादीनि, तेषु पुत्रदारगृहादिषु। (१२) भूतानां (सत्त्वानां) आदिः भूतादिः, तम् भूतादिम् । (१३) शब्दः आदिः, आदी वा, येषां ते शब्दादयः, तान् शब्दादीन् । (१४) श्रोत्रं आदिः, आदौ वा, येषां तानि
श्रोत्रादीनि। 157. आदित्य-(१) आदित्यगतम् । (२) आदित्यवर्णम्। (३) रुद्रादित्याः।-(१)
आदित्ये गतम् (तदन्तः स्थितम् ) आदित्यगतम् । (२) आदित्यस्य इव वर्णः यस्य सः आदित्यवर्णः, तम् आदित्यवर्णम् । ( ३ ) (एकादश) रुद्राश्च (द्वादश) आदित्याश्च
रुदादित्याः। 158. आदित्व-अनादित्वात्-न आदित्वम् अनादित्वम्, तस्मात् । 159. आदिमत्-अनादिमत्-आदिः अस्य विद्यते इति आदिमत् ; न आदिमत् अनादिमत् । 160. आदिमध्यान्त-अनादिमध्यान्तम्-आदिश्च मध्यं च अन्तश्च आदिमध्यान्ताः, ते
यस्य विद्यन्ते सः आदिमध्यान्तः, तम् आदिमध्यान्तम् ; न आदिमध्यान्तम् अनादि
मध्यान्तम् । 161. आनन-व्यात्ताननम्-व्यात्तं आननं यस्य सः व्यात्ताननः, तम् । 162. आमय-अनामयम्-न आमयः विद्यते यस्मिन् तत् । 163. आयास-बहुलायासम्-बहुल: आयासः बहुलायासः, तत्पूर्वकम् । 164. आयुस्-अघायुः-[विग्रहपद्धत्यै 'अघ' (१) शब्दो दृष्टव्यः । 165. आयुःसत्वबलारोग्यसुखप्रीति-आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धना:- आयु :
सत्त्वबलारोग्यप्रीतिन् (आयुश्च सत्त्वं च बलं च आरोग्यं च प्रीतिश्च आयुःसत्त्व...
प्रीतयः, ताः) विवर्धयन्ति इति । 166. आ(रम्य)-(१) आब्रह्मभवनात् । (२) आब्रह्मभुवनात् ।-(१-२) ब्रह्मभवनं,..भुवनं
वा आरभ्य। 167. आरम्भ-(१) अनारम्भात् । (२) सर्वारम्भाः।-(१) न आरम्भः (तस्य अभावः)
__ अनारम्भः, तस्मात् अनारम्भात् । (२) सर्वे आरम्भाः सर्वारम्भाः। 168. आराम-(१) अन्तरारामः। (२) इन्द्रियारामः।-(१) [विग्रहपद्धत्यै ‘अन्तर्' (२)
शब्दो दृष्टव्यः] । (२) इन्द्रियेषु यः आरामं प्राप्नोति सः इन्द्रियारामः। 169. आरूढ-(१ यन्त्रारूढानि। (२) योगारूढस्य। (३) योगारूढः।-(१) यन्त्राणि
(शरीराणि) आरूढानि (अधिष्ठितानि इव) यन्त्रारूढानि (इव सर्वभूतान्स्वमायया भ्रामयन्तिष्ठति हृद्देशे ईश्वरः)। (२-३) योगं आरूढः (तस्य पारंगतः, तस्मिन्
सिद्धि प्राप्तः वा) योगारूढः, तस्य योगारूढस्य । 170. आर्यजुष्ट-अनार्यजुष्टम्-न आर्यजुष्टम् (आर्यस्य जुष्टम् )।
.
237
For Private and Personal Use Only