________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Bhagavad gita Word-Index Pt. II-A (a)
171. आलय-(१) दुःखालयम्। (२) हिमालयः।-(१) दुःखानां आलयम् (नपुंसक
लिङ्गम्) दुःखालयम्, तम् दुःखालयम्। (२) हिमस्य आलयः (पुंलिंगम् ,
हिमालयः। 172. आलस्य-(१) निद्रालस्यप्रमादोत्थम् । (२) प्रमादालस्यनिद्राभिः।-(१) निद्रायाः,
. आलस्यात् , प्रमादात् वा उत्थितम् निद्रालस्यप्रमादोत्थम् । (२) प्रमादश्च आलस्यं
च निद्रा च प्रमालस्यनिद्राः, ताभिः प्रमादालस्यनिद्राभिः।। 173. आवर्तिन्-पुनरावर्तिनः-पुनः ये आवर्तयन्ति (प्रत्यागच्छन्ति) ते। 174. आवह-भयावहः-भयं आवहति इति । 175. आविष्ट विश् + आ-विस्मयाविष्टः-विस्मयेन आविष्टः । 176. आवृत्ति-अनावृत्तिम्-न आवृत्तिः (तस्याः अभावः) अनावृत्तिः, ताम् । 177. आवेशित विश् + आ-मय्यावेशितचेतसाम्-मयि आवेशितानि चेतांसि, यैः, येषां
वा, ते मय्यावेशितचेतसः, तेषाम् । 178. आशा-(१) निराशीः । (२) मोघाशाः-(१) निर्गताः आशाः यस्मात् सः निराशीः ।
(२) मोघाः (वृथा) आशाः येषां ते मोघाशाः। 179. आशापाश-आशापाशशतैः-आशापाशानां (आशाः एव पाशाः, आशानां पाशाः वा,
___ आशापाशाः, तेषां) शताः आशापाशशताः, तैः आशापाशशतैः । 180. आश्चर्य-सर्वाश्चर्यमयम्-सर्वासु वस्तुषु सर्वतः वा आश्चर्यमयम् (आश्चर्ययुक्तम्)। 181. आश्रय-(१) निराश्रयः। (२) मदाश्रयः।-(१) निर्गतः आश्रयः यस्मात् (यः
कस्याप्यश्रयो न गृह्णाति) सः निराश्रयः। (२) अहं आश्रयः यस्य सः मदाश्रयः । 182. आश्रित-अनाश्रितः-न कस्मिन्नपि आश्रितः। 183. आसक्त-(१) अव्यक्तासक्तचेतसाम्। (२) मय्यासक्तमनाः।-(१) [विग्रहपद्धत्यै
'अव्यक्त' (५) शब्दो दृष्टव्यः] । (२) मयि आसक्तं मनः यस्य सः मय्यासक्तमनाः । 184. आसङ्ग-कर्मफलासङ्गम्-कर्मफलेषु (कर्मणां फलानि कर्मफलानि, तेषु) आसङ्गः
कर्मफलासङ्गः, तम् कर्मफलासङ्गम् । श्रीशङ्करानुमतविग्रहस्तु:-कर्मणि तत्फले च असङ्गः
कर्मफलासङ्गः, तम् कर्मफलासङ्गम् । 185. आसद-दुरासदम्-दुःखेन आसादः (आसादनं प्राप्तिः वा) यस्य (भवति) सः
दुरासदः, तम् । 186. आसन-विहारशय्यासनभोजनेषु-विहारश्च शय्या च आसनं च भोजनं च विहार
शय्यासनभोजनानि, तेषु । 187. आसुर-आसुरनिश्चयान्-आसुराः (आसुरीप्रकृत्यनुरूपाः) निश्चयाः येषां ते आसुर
निश्चयाः, तान् । 188. आहार-(१) नियताहाराः। (२) निराहारस्य ।-(१) निमताः आहाराः येषां ते
नियताहाराः। (२) निर्गतः आहारः यस्मात् (यः न आहरति, उपभुक्ते) सः
निराहारः, तस्य निराहारस्य । 189. आहारविहार-युक्ताहारविहारस्य–युक्तौ आहारविहारौ (आहारश्च विहारश्च) यस्य
सः युक्ताहारविहारः, तस्य ।
238
For Private and Personal Use Only