SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bhagavadgitā Word-Index Pt. II-A (a) ब्रह्मयोगः, तेन) युक्तः] आत्मा (अन्तःकरणं) यस्य सः ब्रह्मयोगयुक्तात्मा । (३३-३६) महान् आत्मा (अन्तःकरणं) यस्य सः महात्मा; महात्मनः इति षष्ठीएकवचनम्; महात्मन् इति संबोधनम् ; महात्मानः इति प्रथमाबहुवचनम् । (३७) यतं चित्तं (अन्तःकरणं) आत्मा (बाह्य करणं, इन्द्रियसंघातः वा) च येन सः यतचित्तात्मा । (३८) यतः आत्मा (इन्द्रियसंघातः) यतात्मा, तद्वान् यतात्मवान् । (३९-४० ) यतात्मा (विग्रहः पूर्ववत् ); यतात्मानः इति प्रथमाबहुवचनम्। (४१) युक्तः आत्मा (चित्तं इन्द्रियसंघातश्च) येन सः युक्तात्मा। (४२) योगेन योगे वा युक्तः, आत्मा (चित्तं इन्द्रियसंघातश्च) येन सः योगयुक्तात्मा। (४३) वश्यत्वं आपादितः आत्मा (चित्तं इन्द्रियसंघातश्च) येन सः वश्यात्मा, तेन वश्यात्मना । ( ४४-४५) विजितः आत्मा (चित्तं इन्द्रियसंधातश्च) येन सः विजितात्मा; विजितः......यैः ते विजितात्मनः, तेषां विजितात्मनाम्। (४६) विदितः आत्मा (स्वभावः, आत्मतत्त्वम् वा) यैः ते विदितात्मनः, तेषां विदितात्मनाम् । (४७ ) (इच्छातः) विधेयः आत्मा (अन्तःकरणं) यस्य सः विधेयात्मा। (४८) विमूढः (अज्ञानावृतः) आत्मा (अन्तःकरणं) यस्य सः विमूढात्मा । (४९) विशुद्धः (मलरहितः) आत्मा (अन्तःकरणं) यस्य सः विशुद्धात्मा। (५०) सन्न्यासयोगयुक्तः [ सन्न्यासयोगेन (सन्न्यासः एव, सन्न्यासेन, वा, योगः सन्यासयोगः, तेन) युक्तः सन्न्यासयोगयुक्तः ] आत्मा (अन्तःकरणं बाह्यकरणं च) यस्य सः सन्न्यासयोगयुक्तात्मा। (५१-५२ ) संशययुक्तः आत्मा (चित्त) यस्य सः संशयात्मा; तस्य संशयात्मनः। (५३) सर्वभूतात्मभूतः [ सर्वभूतानां (सर्वेषां भूतानां) आत्मभूतः (आत्मा भूतः, आत्मत्वेन अवस्थितः)] आत्मा यस्य सः सर्व' भूतात्मभूतात्मा। ('परिचयात्मकम्' इत्यादि पञ्च। 'आत्मक' शब्दान्ताः समासाः अपि 'आत्मन् शब्दान्तर्गतत्त्वेन 'आत्मन्' शब्दसमासाः एव इति अवगन्तव्यम् । ) 151. आत्मबुद्धिप्रसाद-आत्मबुद्धिप्रसादजम्-आत्मबुद्धिप्रसादेन [आत्मबुद्धयाः (आत्मनः बुद्धिः आत्मबुद्धिः; तस्याः) प्रसादः आत्मबुद्धिप्रसादः, तेन] जातम् । 152. आत्मभाव-आत्मभावस्थः-आत्मभावे (आत्मनः भावः आत्मभावः, स्वभावः, ___ तस्मिन् ) स्थितः। 153. आत्मभूत-सर्वभूतात्मभूतात्मा-विग्रहपद्धत्यै 'आत्मन्' (५३) शब्दो दृष्टव्यः] । 154. आत्मसंयमयोग-आत्मसंयमयोगानौ-विग्रहपद्धत्यै 'अग्नि' (१) शब्दो दृष्टव्यः । 155. आत्मसंस्तुति-तुल्यनिन्दात्मसंस्तुतिः-तुल्ये निन्दा आत्मसंस्तुतिः [आत्मनः, (स्वस्य) संस्तुतिः] च यस्य (मनसा) सः । 156. आदि-(१) अनादि। (२) अनादिम्। (३) अनादी। (४) अव्यक्तादीनि। (५) ___ आदिकत्रे । (६) आदिदेवम् । (७) आदिदेवः । (८) आद्यन्तवन्तः। (९) कल्पादौ । (१०) जनकादयः। (११) पुत्रदारगृहादिषु । (१२) भूतादिम् । (१३) शब्दादीन्। (१४) श्रोत्रादीनि।-(१-३) न आदिः विद्यते यस्य सः अनादिः, तत् अनादि, तम् अनादिम् ; अनादी इति प्रथमाद्विवचनम्। (४) [विग्रहपद्धत्यै 'अव्यक्त' (४) शन्दो दृष्टव्यः । (५) आदिः कर्ता आदिकर्ता, तस्मै आदिकर्ने । 236 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy