SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra न. त० ॥९॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वाविंशतिः यतिधर्मो दशभेद: भावना द्वादशधा चारत्राणि पंच एवं क्रमेण समित्यादीनां पण्णां उत्तरार्द्धप्रोक्तं भेदसंख्या योजने सर्वाग्रे सप्तपंचाशद् भेदा ज्ञातव्याः । तत्र समितयः पंच ईर्यासमितिः १ भाषासमितिः २ एषणासमितिः ३ आदाननिक्षेपणास मिति: ४ पारिष्टापनि समितिः ५ तत्र सम्यक् प्रशस्तात्प्रवचनानुसारेण इति गमनं चेष्टासमितिः । ईर्यायाः गमनस्य समितिः ईर्यासमितिः । मांगें गच्छत् धूसर - युग प्रमाणभूमौ दत्तदृष्टिः साधुः समस्तजीवानां रक्षां कुर्वन् याति साईर्यासमितिः इतिभावः |१| भाषासमितिः भाषाया निरवद्यवचनस्य समितिः |२| एषणासमितिः या द्विचत्वारिंशद्दोषविवर्जितः आहारः साधुमिः गृह्यते सा एषणासमितिः | ३| आदाननिक्षेपसमितिः आदानं वस्तूनां ग्रहणं निक्षेपों वस्तूनां स्थापनं तयोः आदाननिक्षेपयोः समिति यद् वस्तूनां ग्रहणं मोचनं च प्रथमं चक्षुषा निरीक्ष्य ततो रजोहरणादिना प्रमाय विधीयते सा आदाननिक्षेपसमितिः इति भावः |४| पारिष्टा पनिकासमितिः परिष्टाप्यते परित्यज्यते सदोषादि वस्तु सा पारिष्टानिका समितिः ॥५॥ यत्र कफमूत्रमलादि निर्जीवस्थाने यतनया परिष्टाप्यते सा पारिष्टाप निकास मिति: । एवं पंच समितयः व्याख्याताः अथ गुप्तयः तिस्रः मनोगुप्तिः १ वचनगुप्तिः २ कायगुप्तिः । ३ । तत्र मनोगुप्तिः त्रिधा आर्त्तरौद्र ध्यानानुबंधिकल्पनाजालपरिहारः १ धर्म ध्यानानुबंधिनी माध्यस्थ्यपरिणतिः २ केवलज्ञानयोगनिरोधावस्थायां स कलमनोद्रव्यनिरोधच ३ इति मनोगुप्तिः । वचनगुप्तिः द्विधा - भ्रूसंज्ञादिपरिहारात् मौनाभिग्रहः |१| वाचनापृच्छनादिषु मुखाच्छादित वक्त्रस्य भाषमाणस्यापि वाग्रनियंत्रणं |२| वचनगुप्तिः सर्वथा वचननिरोधः निरवद्यसम्यकवचनभाषणाभ्यां कृत्वा द्विभेदा भाषासमिति पुनः सम्यक्वचनप्रवृत्तिरूपतया एकभेदा एव इति वचनगुप्ति भाषा समित्योद्रः । कायगुप्तिः For Private and Personal Use Only अव० ॥ ९ ॥
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy