SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra जी. वि० ॥२२॥ www.kobatirth.org नारकतिर्यग्नराणां शरीरप्रमाणं सूत्रकृद्वयाख्याय देवानामुत्कृष्टं देहप्रमाणं पार्थक्येन व्याचिकीर्षुराह- ईसागंत सुराणं, रयणीओ सत्त हुंति उच्चत्तं । दुग दुग दुग चउ गेवि-ज्जणुत्तरेक्किकप रिहाणी ॥ ३३ ॥ व्याख्या -- ईशानान्तम् - ईशानदेवलोकं यावत्सुराणां देवानां सप्त रत्नयः सप्त हस्ता उच्चत्वं शरीरस्य भवन्ति ( ति ) । अन्तमिति प्राकृतत्वाद्विन्दुलोपो मात्राभङ्गभयात् । ईशानान्तग्रहणेनोपलक्षणाद्भवन पतिव्यन्तरज्योतिष्क सौधर्मेशाना ग्राह्याः । तदग्रतस्त्रिकयुगले एकैकहस्तहान्या शरीरप्रमाणं । एवमष्टौ देवलोकाः । किमुक्तं भवति ? सनत्कुमारमाहेन्द्रयोः षड् हस्ताः ब्रह्मलान्तकयोः पञ्च. शुक्रसहस्रारयोश्वत्वारो हस्ता देहमानं । तदग्रतो देवलांकचतुष्टये नवग्रैवेयकानुत्तरसुरेष्वेक हस्तान्योत्कृष्टशरीरप्रमाणं भवति । कथं ? तदुच्यते - आनतप्राणतारणाच्युतेषु त्रयो हस्ताः, नवग्रैवेयकेषु द्वो हस्तौ अनुत्तरेषु हस्तप्रमाणं शरीरमिति । तच्च शरीरप्रमाणं प्रमाणागुलेभ्योऽथवोत्सेधाङ्गुलेभ्यः केन मिनुयात् ? तद्वचा चष्टे, तद्यथा- "सरीरमुस्सेहमंगु लेण तहा" इतिवचनाच्छरीरप्रमाणमुत्सेधागुलेन ग्राह्यं । उत्सेधाङ्गुलप्रमाणं त्विदं, यथा-" परमाणू तसरेणू, रहरेणू वाळअग्ग लिक्खा य । जुआ जवो अट्ठगुणा, कमेण उस्सेमंगलयं || १ ||" इति । स्पष्टैव । एतच्च शरीरप्रमाणं भवधारणीयं । उत्तरवैक्रियं तु लक्षयोजनप्रमाणं, यदुक्तं - "भैवधारणिज्ज १ शरीरोत्सेध उत्सेधाङ्गुळेन. २ परमाणुत्रसरेणुः रथरेणुला दिक्षा च । यूका यवः अष्टगुणाः क्रमेण औत्सेधमङ्गुलकम् 3 भवधारणीया पासका वैक्रियं / औत्तां ) योजनानि लक्षम । ग्रैवेयकानत्तरेष उत्तरवै क्रियाणि न सन्ति । Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only सटीक. ॥२२॥
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy