________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
SA-KI-KA-SA-AAKASAR
PI:तथा भुजचारिणो गृहगोधादयो गव्यूतपृथक्त्वशरीरप्रमाणेन भवन्तीति गाथाक्षरार्थः ॥३०॥ । इति गर्भजतिरश्चां चतुष्पदवर्जानां विशेष उक्तः अथान्येषां संमूर्छिमतिरश्चां संमूर्छिमचतुष्पदानां च दहमानविशेष विवक्षुराहखयरा धणुहपुहुत्तं, भुयगा उरगा य जोयणपुहुत्तं । गाउयपुहुत्तमित्ता, समुच्छिमा चउप्पया भणिया ॥३१॥
व्याख्या-खचराः पक्षिणो गृध्रादयो धनुःपृथक्त्वं शरीरेण भवन्ति । उरगा भुजगाश्च संमूर्छिमा योजनपृथक्त्वं देहप्रमाणेन भवन्ति । संमूर्छिमचतुष्पदाअपि गव्य॒तपृथक्त्वमा । माशशब्दोऽत्र प्रमाणवाची । तत्प्रमाणशरीरा इत्यर्थः । क्वापि भुजपरिसर्पाणां धनुःपृथक्त्वमप्युक्तं । तथाहि--"मुच्छिमचउपयभुयगुरुरा(ग)गाऊअधणुजोयणपुहुत्तमितिवचनात् । इति गाथाक्षरार्थः ॥३१॥ ____ अथ गर्भजचतुष्पदानां देहप्रमाणविशेष गाधापूर्वार्धन व्याकुर्वन्नाहछच्चेव गाउआई, चउप्पया गब्भया मुणेयव्वा । कोसतिगुच्च मणुस्सा, उकोससरीरमाणेणं ।। ३२ ॥
व्याख्या-पड्गव्यूतानि गर्भजाश्चतुप्पदाः "मुणेयब्बेति" देहप्रमाणेन ज्ञातव्याः। तदेहप्रमाणमुक्कतो देवकुवादिगतगर्भजद्विरदानाश्रित्य निश्चेतव्यमिति । चकारोऽनुक्तसमुच्चयार्थः । एवेति निश्चयार्थः । इति तिरश्चामुत्कृष्टशरीरप्रमाणं व्याख्याय क्रमागतं मनुप्याणामुत्कृष्टदेहप्रमाणं गायोत्तरार्धेनाह-क्रोशत्रिकोच्चा मनुष्याः समासाद्विभक्तिलोपे उत्कृष्टशरारप्रमाणेनेति । एतत्प्रमाणं प्रथमे:सुषमसुषमारके युग्मिनां नृणामवसेयमिति गाथाक्षरार्थः ।। ३२ ॥
१ संमूर्षियमचतुष्पदभुजपरिसपोर परिसर्पाणां गब्यूतधनुर्योजनपृथक्त्वम्
SHRSHAALASARA
%A5%
For Private and Personal Use Only