________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
कर
योजनं च । अनुक्रमशोऽनुक्रमेण । समासाद्विभक्तिलोपे सूत्रत्वात्पुंस्त्वनिर्देशे योजनादिषु शब्देषु, द्वीन्द्रियाणां त्रीन्द्रियाणां चतुरिन्द्रि- । याणां, इहापि विभक्तिलोपो। देहं शरीरमुञ्चत्वेन भगवता भणितं । तृतीयार्थे द्वितीया । तथा चोक्तं सङ्ग्रहिण्या-"बारसे जोयण संखो, तिकोस गुम्मी य जोयणं भमरो" इतिवचनात् ।। तत्र द्वीन्द्रियपदे द्वादश योजनानि शरीरावगाहना स्वयम्भूरमणादिशङ्खादिनामवसेया । एवं त्रीन्द्रियेष्वप्यवगाहना भावनीया। नवरं गव्यूतत्रयं शरीरावगाहना बहिर्दीपवर्तिकर्णश्रृगाल्यादीनामवगन्तव्या । एवं चतुरिन्द्रियेष्वपि । नवरं गव्यूतचतुष्टयं शरीरमानं बहिर्दीपवर्तिनां भ्रमरादीनामित्यनुयोगद्वारवृत्तायुक्तं । तथा पञ्चन्द्रियाणां तिर्यङ्नराणां शरीरमानं पुरतो व्याकरिष्यतीति गाथार्थः ।। २८॥ ____ अथ पश्चेन्द्रियेषु पूर्व नारकाणां शरीरप्रमाणं बिभणिपुराह-- धणुसयपंचपमाणा, नेरइया सत्तमाइ पुढवीए । तत्तो अद्भघृणा, नेया रयणप्पहा जाव ॥ २९ ॥
व्याख्या-धनुःशतपश्चप्रमाणशरीरा नारकाः तमस्तमःप्रभायां नरकपृथिव्यां ज्ञेयाः। ततो व्युत्क्रमेणार्धा?ना देहप्रमाणा नारका रत्नप्रभा यावज्ज्ञेयाः । तद्यथा-नमस्तमःप्रभायां पञ्चधनुःशतानि देहप्रमाणं ७ । तमःप्रभायां सार्धे द्वे धनुःशते देहप्रमाणं ६ । धूमायां पश्चविंशं शतं धनुपां देहप्रमाणं ५। पङ्कायां द्वापष्टिधषि द्वौ हस्तौ देहप्रमाणं ४ । वालुकायामेकत्रिंशद्धनूंषि एको हस्तो शरीरप्रमाणं ३। शर्करायां पश्चदश धपि द्वौ हस्तौ द्वादशाङ्गुलानि देहप्रमाणं २ । रत्नप्रभायां सप्त धषि त्रयो हस्ताः पडङ्गुलानि देहप्रमाणं १॥
१ द्वादशयोजनःशङ्खः त्रिक्रोशो गुल्मी च योजनं भ्रमरः
RASACRECCACACADE
For Private and Personal Use Only