________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
COACHECA
| " सव्वे सवेइयंता, पढम चउक्कम्मि तेसि नामाई । एगोरुग आभासिय, बेसाणिय चेव लंगूले ॥४॥" सर्वेऽन्तरद्वीपा वेदिकावनखण्डमण्डिता ज्ञेयाः ।तथा प्रथमचतुष्के तेषामुत्तरपूर्वादिदिशमादितः कृत्वा प्रादक्षिण्येन नामानि यथा-एकोरुकः १, आभाषिकः २, वैपाणिकः ३, लाङ्गुलश्चेति ४ नामानश्चत्वारो द्वीपा वर्तन्ते । अथ "बीयचउक्के हय १ गय २, गो३ सक्कुलिपुत्वकण्ण ४ नामाणो। आयरस १ मिंढग २ अओ ३, गोपुव्वमुहाउ ४ तइयम्मि ॥ ५॥ अथ द्वितीयचतुष्के हयकर्ण १ गजकर्ण २ गोकर्ण ३ शष्लीकर्ण ४ नामानश्चत्वारो द्वीपा वर्तन्ते । तृतीयचतुष्क आदर्शमुख १ मिण्डमुख २ अयोमुख ३ गोमुख ४ नामानश्चत्वारो द्वीपा वर्तन्ते । अथ-" हयगयहरिवग्यमुहा, चउत्थए आसकण्णहरिकण्णो । अकन्नकन्नपावरण, दीव पंचमचउक्कम्मि ॥६॥" चतुर्थचतुष्केऽश्वमुख १ गजमुख २ सिंहमुख ३ व्याघ्रमुख ४ नामानश्चत्वारो द्वीपा वर्त्तन्ते । पञ्चमचतुष्के अश्वकर्ण १ हरिकर्ण २ आणि ३ कर्णप्रावरण ४ नामानश्चत्वारो द्वीपा वर्त्तन्ते । अथ-"उकमुहो मेहमुहो, विज्जुमुहो विज्जुदंत छट्टम्मि। सत्तमगे दंतता, घणलट्ठनिगूढसुद्धा य ॥७॥ षष्ठे चतुष्के उल्कामुख १ मेघमुख २ विद्युन्मुख ३ विद्युहन्त ४ नामानश्चत्वारो द्वीपा वर्तन्ते । सप्तमके चतुष्के घनदन्त १ लष्टदन्त २ निगृढदन्त ३ शुद्धदन्त ४ नामानश्चत्वारो द्वीपा वर्तन्ते । “एमेव य सिहरिम्मिवि, अडवीसं सव्व हुँति छप्पना । एएसु जुयलरूवा, पलियासंखंस आउ नरा ॥८॥ एवमेव पूर्वोक्तरीत्या हि शिखरिणि पर्वतेऽप्यष्टाविंशतिीपा भवन्तीति । सर्वे मिलिताः षट्पञ्चाशदन्तीपा भवन्ति । एतेषु षट्पञ्चाशदन्तीपेषु युगलरूपा मनुष्याः पल्योपमासङ्ख्येयवर्षायुषो वसन्ति । अथ शरीरप्रमाणादिविशेष दर्शयति-"जोयण दसमंसतणू, पिट्टिकरंडाण मेसि चउसट्ठी । असणं च चउत्थाओ, गुणसी दिणवच्चपालणया ॥९॥" तेषां युगलधर्मिणां तनुः-शरीरं योजनदशांशोच्च अष्टशतधनुरुच्छ्रितमित्यर्थः। तथैतेषां शरीरे पृष्ठिकरण्डानां चतुःपष्टिर्भवति । तथैतेषामाहारेच्छा
SASRAEASE
For Private and Personal Use Only