________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsun Gyanmandir
वि०
सटीक.
१४॥
छिमछाट
पञ्च भरतानि । एवमेव पञ्च महाविदेहाः तथैरवतानि च प्रत्येकं पञ्च पञ्चेति । तामु जाताः कर्ममहीजाः। कर्म पूर्वोक्तं, तद्यत्र न ता अकर्ममयः शिन्मिताः। तद्यथा-"हैमवंत १, इरिवर्ष २, देवकुरवः ३, तथोत्तरकुरवः ४, रम्यकं ५, ऐरण्यवतं ६ चैताः षण्मह्यः । पञ्चभि मेरुभिर्गुणितास्त्रिंशत्सकथा भवन्ति । तासु महीषु जाता अकर्ममहीनाः एताश्च सर्वा अपि युगलधार्मिकाणां स्थानमाश्रयाः, युगलधार्मिका एव नरतिर्यग्चस्तत्र बसन्तीतिभावः । ते दशविधकल्पद्रुमाप्ताशनपानवसनालङ्कारादिभिः प्राप्तेन्द्रियमुखाः । इत्युक्तः कर्माकर्ममहीजानां विशेषः । अथान्तरद्वीपस्वरूपं प्रस्तावयति । उक्तं च-"हिमवंतता विदिसीसाणाइगयाइ चउसु दाढासु । सग सग अंतरदीवा, पढमचउकं च जगईओ ॥१॥जोयणतिसएहि तो, सय सय वुड्डी य छसु चउक्केसु । अन्नुन्ननगइअंतर, समअंतरि अंतरा सव्वे ॥२॥" हिमवदुभयप्रान्ताभ्यां द्वे द्वे दंष्ट्र निर्गते । ततस्तासु चतसृषु दंष्ट्रासु विदिश्वीशानादिषु सप्त सप्तान्तरद्वीपा भवन्ति । तेष्वन्तरद्वीपेषु प्रथमचतुष्क जगतीतो योजनानां त्रिभिः शतैरस्ति । ततः परं पट्सु चतुष्केषु अन्योऽन्यान्तरे जगतीद्वीपान्तरे च योजनशतवृद्धिश्च भवति योजनशतं वर्धत इत्यर्थः । तथा सर्वेऽपि द्वीपा अन्तरसमविस्तारा भवन्ति । अयमर्थः-जगतीद्वीपान्तराले द्वीपानां च विस्तारे प्रथमद्वीपचतुष्कमाश्रित्य योजनशतत्रय, द्वितीयं चतुष्कमाश्रित्य योजनशतचतुष्टयं, इत्याधेकैकयोजनशतवृध्ध्या यावत्सप्तमं द्वीपचतुष्कमाश्रित्य योजनशतनवकं भवतीत्यर्थः। अन्तरद्वीपानामेव जलोपरिगतं प्रमाणमाह-"पढमचउक्कुच्चवहिं, अड्डाइय जोयणे य वीसंसा । सयरिंस बुडि परओ, मज्झदिसि सबकोसदुगं॥ ३॥” द्वीपानां प्रथमचतुष्क बहिर्जम्बूद्वीपदिशि उच्चत्वं जलोपरि | सप्रकाशं सार्धे द्वे योजने विंशतिः पञ्चनवतिभागाश्च । एतदकानयनविधिः क्षेत्रसमासवृत्तेरवसेयः । स्थूलवृत्त्या चतुष्के चतुष्के सप्ततिसयानां पञ्चनवतिभागानां वृद्धिः क्रियते सर्वेषामन्तरद्वीपानामेवं जलोएरिगतं प्रमाणं भवति । अथैषामन्तरद्वीपानां नामान्याह
॥१४॥
For Private and Personal Use Only