________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
। राजनगर मंडन श्री मूलेवापार्श्वनाथाय नमः ॥
॥ श्रीवृद्धिचन्द्रजी सद्गुरवे नमः ॥ ।। शासनसम्राट् श्रीविजयनेमि-उदय-मेरुप्रभसूरीश्वरेभ्यो नमः ॥ ॥ श्री जीवविचारः ।'
॥ सटीकः ॥ सज्ज्ञानभास्करं वीरं, नत्वा वाणी निजं गुरुम् । कुर्वे जीवविचारस्य, कारिकां सुखबोधिकाम् ॥१॥
इह हि हेयोपादेयादिपदार्थसार्थपरिज्ञाननिपुणस्य जन्मजरामरणरोगशोकादिदोर्गत्यनिपीडितस्य भव्यसत्त्वस्य स्वर्गापवर्गादिसंपत्संपादनप्रवणस्य जीवतत्त्वस्य ज्ञानमुपादातुमुचितं, तदुपादानोपायः सौवगुरूपदेशमन्तरेण न सम्यग्ज्ञायते, न चानुपायप्रवृत्तानामिष्टार्थाप्तिरित्यतः कृपापावित्र्यमनाः श्रीशान्तिमूरिस्तत्त्वोपदेशं दातुकामः शिष्टमार्गानुगामितया पूर्व तावदभीष्टदेवतानमस्करणप्रतिपादिकां शास्त्राभिधेयसूचिकामिमां गाथामाहभुवणपईवं वीरं, नमिऊण भणामि अबुहबोहत्यं । जीवसरूवं किंचि वि, जह भणियं पुव्वसूरीहिं ॥१॥
AAAAAAE%
ACK
For Private and Personal Use Only