________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
द्वे शतेऽष्टचत्वारिंशत्यधिके ८६२९१४८ प्राक्तनरीत्या छेदराशिमधो विधाय भागे हृते लब्धानि त्रयोदशाङ्गुलानि १३ उपरोदमवशिष्यते चत्वारिलक्षाणि सप्त सहस्राणि षट्चत्वारिंशत्यधिकानि त्रीणि शतानि ४०७३४६ अर्द्धगुलानयनाय एष राशि गुणी क्रियते जातान्यष्टौ लक्षाणि चतुर्दशसहस्राणि पट्शतानि द्विनवत्यर्गलानि ८१४६९२ प्राक्तन नैवच्छेदराशिना भक्ते लब्धमर्द्धमङ्गुले शेषमुद्धरति एका लक्षा द्वाशीतिः सहस्राणि द्वे शतेऽष्टात्रिंशदधिके एप जम्बूद्वीपस्य परिधि रिति ॥ ७ ॥ अमुमेवार्थ स्पष्टतरमाह
12२४५४
परिही तिलक्ख सोलस सहस्स दो य सय सत्तवी सहिया । कोसतिगट्ठावीसं धणुसय तेरंगुलद्धहियं ॥८॥
परिही ति । योजनानां तिस्रो लक्षाः पोडशसहस्रा द्वे शते सप्तविंशत्यधिके क्रोशत्रयमष्टाविंशं धनुःशतं त्रयोदशागुलान्यर्द्ध चाङ्गुलं साधिकं जम्बूद्वीपस्य परिधिः परिक्षेषो भवति । इहाऽधिकग्रहणादेका यूका लिक्षा चैका लभ्यत इत्यादि विशेषार्थिना स्वयमेवाभ्युद्यम् । सूत्रकारेणोपेक्षितत्वान्मयाऽपि न लिखितमित् ि॥ ८ ॥
अधुना जम्बूद्वीपस्य गणितपदे कृते यत् सम्पद्यते तदभिधित्सुराह—
सत्तेव य कोडिसया नया छप्पन्नसयसहस्साइं । चउणउयं च सहस्सा सयं दिवढं च साहियं ॥ ९ ॥ गाउयमेगं परसधणूसया तह धणूणि पन्नरस । सट्ठि च अंगुलाई जंबुद्दीवस्स गणियपयं ॥ १०॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir