________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiran.org
Acharya Shn Kailassagarsun Gyanmandir
Pr-
%
%
तथाहि-कल्पनया किल कश्चिदेवः सकलमपि जम्बूद्वीपं योजनप्रमाणेष्टिकश्चितं करोति प्रतरविस्तारेण तत्प्रमाणा यावन्त्य इष्टिका भवन्ति तावन्त्येव योजनखण्डानि भवेयुः तदानयनाय करणमाह-लक्खस्सेत्यादि । लक्षस्येति योजनलक्षत्रमाणे वृत्तक्षेत्रं तस्य परिधिर्वाद्यपरिमण्डलं, भविष्यमाणप्रमाणं तस्य । तप्पायगुणे ति तस्य लक्षस्य यः पादश्चतुर्थोशः पञ्चविंशतिसहस्ररूपस्तेन गुणो गुणकारस्तस्मिन् कृते सति । चःसमुच्चये । किं भवतीत्याह-ते हुंति ति प्राकृतत्वाल्लिङ्गव्यत्ययः ततस्तानि योजनप्रमाणानि खण्डानि भवन्ति सम्पद्यन्ते तथाहि लक्षस्य परिधौ पञ्चविंशत्या सहस्त्रगुणिते वाञ्छिते को लभ्यत इति भावः स चोत्तरत्र प्रपञ्चेन भणिष्यते ॥छ॥६॥
अधुना यदुक्तं लक्खस्स य परिहीए इति परिधेर्नामकीर्तनं तस्यानयनाय करणगाथामाहविक्खंभ वग्गदहगुणकरणी वट्टस्स परिरओ होइ । विक्खंभपायगुणिओ परिरओ तस्स गणियपयं ।।७।।
विक्खंभे ति । इह जम्बूद्वीपपरिधिना प्रयोजनं स च वेदिका शिरः कटकजालकबाह्यदिग्विभागवर्ती ग्राह्यः । अतो मूले द्वादश योजनानि पृथुला वेदिका तस्याश्च मध्यान्यष्टौ योजनानि जम्बूद्वीपमध्ये ज्ञातव्यानि योजनचतुष्टयमानो बाह्यप्रदेशो लवणसमुद्रमध्ये गण्यते । विक्खंभेत्यादि विखंभो विस्तारः तस्य वर्गस्तावतैव गुणनं यथा चत्वारश्चतुभिर्गुणिताः पोडश भवन्तीत्यादि । स च दशगुणो दशकेन गुणितः तस्य करणिविषमसमेत्यादिना वर्गमूलानयनम् एवं कृते किं भवतीत्याहवहस्सेत्यादि वृत्तस्य वर्तुलक्षेत्रस्य परिरयः परिधिर्भवति स्यात् । विक्खंभस्य पादेन-चतुर्थाशेन गुणितः सन् परिरयो गणितपदं
%
%a3
-
2
For Private and Personal Use Only