SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir * धिकास्तेभ्योव्यन्तरा असंख्येयगुणाधिकास्तेभ्यो ज्योतिष्काः संख्येयगुणाधिकास्तेभ्यश्चतुरिन्द्रियाः पर्याप्ताः संख्येयगुणाधिकास्तेभ्यः संजिनः पञ्चेन्द्रिया विशेषाधिकास्ततो द्वीन्द्रिया विशेषाधिकास्ततस्वीन्द्रिया विशेषाधिकास्तेभ्यः पृथवीकायिका जीवा असंख्यातगुणाधिकास्तेभ्योऽप्कायिका जीवा असंख्यगुणाधिकास्तेभ्यो वायुकायिका जीवा असंख्येयगुणाधिकास्तेभ्यो वनस्पति कायिका जीवा अनन्तगुणाः क्रमेण इमे पूर्वोक्तपदार्थाः अधिका अधिका भवन्ति, मनुष्यादिवनस्पत्यासानान् शब्दान् प्रति प्रत्येक भवन्तीति क्रिया प्रयोज्यत्यर्थः । अत्र चकारः समुच्चयार्थः । घण्टालालान्यायेन पूर्वमग्रतः सर्वत्र अधिका भवन्ति च इति ग्रहणीयम् , | अल्पबहुत्वद्वारं समाप्तम् । अथ गायोत्तरार्धेन (दण्डकभ्रान्ति दर्शयति-) सर्वेऽपि च इमे पूर्वोक्ता भावाः पर्याप्तास्तेषु तेषु जीवस्थानेषु गमनागमनरूपाः हे जिना ! मया भवे भ्रमता अनन्तशोऽनन्तकृत्वः प्राप्ताः । यथा मया तथाऽन्यैरपि जीवैः । एतेन स्वामिनां पुरः सदुःखं निवेदितम् । अथ तद्विमोचनलक्षणां प्रार्थनामाह-सब्वेवि इमे भावेति० हे जिना! हे परमेष्ठिनो! मया सर्वेऽपि इमे चतुर्विशतिदण्डकभावाः अनन्तशः प्राप्ताः अनन्तवारान् संप्राप्ता इत्यर्थः अनन्तवारान् अनन्तशः ॥४१॥४२॥ | संपइ तुम्ह भत्तस्स, दंडगपयभमणभग्गहिययस्स । दंडतियविरय(इ) सुलहं, लहुं मम दितु मुक्खपयं ॥४३॥ (अव०) हे जिना इति पदं पूर्वस्थितमिहापि गृह्यते । तेन हे जिनाः ! सम्प्रति इह भवे भवतां भक्तस्य त्रिकरणशुद्धया भक्तिमतः। दण्डकपदेषु सूक्ष्मवादरपर्याप्तरूपेषु भ्रमणं पुन: पुनर्गत्यागतिरूपं तस्माद्भग्नं निवृत्तं हृदयं मनो यस्य एवंविधस्य मम विज्ञप्तिकर्तुः । दण्डत्रिकात् मनोवाक्कायानर्थप्रवृत्तिरूपाद्विरतानां सुलभं सुप्रापं दण्डत्रिकविरतसुलभं मोक्षपदं लघु शीघ्रं भवन्तो जिमा ! मया मदण्डकधान्ति वयानन्यायेन पूर्वमतः वनस्पत्यासानान ** For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy