________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
बर
द. प्र० ॥१७॥
अव०
टीका--पज्जत्तेति० पर्याप्ताः संख्यातायुषो गर्भजतियश्चः संख्यातायुषो नराश्च सप्तमु निरयेषु यान्ति-गच्छन्ति । "असन्नी खलु पढमं” इति इति वचनात् असंज्ञिनोऽपि प्रथमां पृथिवीं यावत् यान्ति, परं तेषां इहानधिकृतत्वात् नोक्तं । नैरयिकगतिद्वारा
सटीक. व्याख्यातं । अथ नैरयिकागतिद्वारं व्याख्यानयति । निरउत्ति० तथा निरयानरकात् उधृताश्च्युता जीवा एतेष्वेव संख्यातायुष्षु गर्भजतिर्यग्मनुष्येष्वप्युत्पद्यन्ते आयान्तीत्यर्थः, शेषेभ्यो द्वाविंशतिद्वारेभ्यो नैरयिका जीवा न भवन्ति, एतेषु च नोत्पद्यन्ते नायान्तीत्यर्थः । नैरयिकागतिद्वारं प्ररूपितं ॥३५॥ ___ अथ पृथिव्यब्बनस्पतिषु जीवानां गतिद्वारमाहपुढवीआउवणस्सइ, मज्झे नारयविवज्जिया जीवा । सव्वे उववज्जंति, नियनियकम्माणुमाणेणं ॥३६॥ 11
(अव०) पृथिव्यब्बनस्पतिकायमध्ये नारकविवर्जिताः सर्वे त्रयोविंशतिदंडकस्था जीवा उत्पद्यते । निजनिजयथाकृतकारितानुमोदितकर्मणामनुमानेन । निजनिजेतिवदता सूत्रकृता स्वयं कृतं कर्म भुज्यते न परकृतमित्यावेदितम् । कर्मानुमानेनेति सत्कर्मणा शुभस्थाने असत्कर्मणाशुभस्थाने । ३६।। एतेषामेव गतिद्वारमाह।
टीका-पुढवीति. पृथिव्यवनस्पतीनां मध्ये नारकविवर्जिता इति, कोऽर्थः-निरयजीवान् विहाय अन्ये सर्वे त्रयोविंशति-13 दण्डक सत्कजीवा निजनिजकर्मानुमानेन-निजशुभाशुभकर्मानुसारेणोत्पद्यन्ते प्रादुर्भवन्तीत्यर्थः । गतिद्वारं विवर्णितम् ॥३६ ।
॥१७॥
RREARRRRREARS
A
CCORA
For Private and Personal Use Only