SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavirlain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir EAR-कराट च्यवनद्वारमप्यवसातव्यम् , समानत्वादुपपातच्यवनयोः । अष्टादशं आयुरमाह-अग्रेस्थितमप्यायुरिति पदं सर्वत्रानुवर्तनीयम् , तेन पृथिव्याः द्वाविंशतिवर्षसहस्राण्युत्कृष्टमायुरिति सर्वत्र योज्यम् । एवं उदकस्य सप्त, वायोस्त्रीणि, बनस्पतेर्दशवर्षसहस्राणि ॥२६॥ ___टीका-असन्नित्ति असंज्ञिनो मिथ्यादृष्टयः सर्वपर्याप्तिभिरपर्याप्तताश्च एवंविधा नरा असंख्याताः प्रादुर्भवन्ति तथैवासंख्याता एव च्यान्ते-म्रियन्ते च । यथा उपपातो भवति तथैव च्यवनमपि ज्ञेयमित्यर्थः । अपिशब्दः समुच्चयार्थः । उपपातच्यवन द्वारमभिधाय अथाष्टादशं स्थितिद्वारमाह-बावीससेति० पृथिवीकायजीवानां द्वाविंशतिवर्षसहस्रा उत्कृष्टाः स्थितिः स्यात् । अथाप्कायस्थितिमाह-अप्कायस्य सप्तवर्षसहस्रा उत्कृष्टा आयुःस्थितिर्भवति । अथ वायुकायस्य स्थितिमाह-वायुकायस्यत्रयो वर्षसहस्रा उत्कृष्टा स्थितिः स्यात । अथ वनस्पतिकायस्योत्कृष्टां स्थितिमाह-वनस्पतीनां तरुगणानां उत्कृष्टा दशवर्षसहस्रा स्थितिर्भवति ॥२६॥ तिदिणग्गि तिपल्लाऊ, नरतिरिसुरनिस्यसागरतित्तीसा। वंतरपल्लं जोइस, वरिस लक्खाहियं पलियं ॥२७॥ (अब०) अग्नेः त्रीणि दिनान्यायुः । गर्भनतिर्यग्नराः त्रिपल्यायुपो देवकुर्वादिषु मुरनारकाणां त्रयस्त्रिंशत्सागरोपमाणि, व्यन्तराणां पल्योपमम् , ज्योतिषां वर्षलक्षाधिकं पल्योपमम् ॥ २७ ।। असुराणामायुःस्थितिमाह___टीका-तिदिणग्गीति० तेजस्कायस्य उत्कृष्टा स्थितिः त्रीणि दिनानि भवन्ति । स्थावराणां स्थिति प्ररूप्याथ नरतिरश्वोः स्थितिमाह-तिपल्ले ति नरतिरश्वोस्त्रीणि पल्योपमानि स्थितिर्भवति । अथ सुरनरयिकानां स्थितिमाह-सुरनैरयिकयोस्त्रयस्त्रि For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy