________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
G-
SROCELECCESCENC
भेदात् पञ्चधा । दुसमुग्धायेति० द्वौ समुद्घातो जीवाजोवसम्बन्धिनौ भवतः तत्राद्यं जीवसमुद्घातमाह-तथाहि-सम्यक् आत्मनो वेदनादिभिरेकीभावेन उत्प्राबल्येन घातः समुद्धातः । स च सप्तधा, यथा-वेदत्ताकषायमरणवैक्रियेत्यादि । वेदनादीनां पण्णां मानमन्तमुहूत्त स्यात् सप्तमस्तु केवलिसमुद्घातो दण्डादिना लोकव्यापी दण्डादि क्रमेण सकललोकस्य पूरणात् , बालतोऽष्टसामायिकः । द्वितीयस्तु समुद्घातोऽचित्तमहास्कन्धरूपः, स च केवलिसमुद्घातवत् अष्टसामायिकः परमिहानधिकारास्नोक्तं । दिट्ठी० दृष्टिविधा, यथा सम्यग्दृष्टिः १ मिथ्यादृष्टिः २ सम्यग्मिथ्यादृष्टिः ३ (च) ॥ दर्शनानि चत्वारि भवन्तिः यथा-चक्षुर्दर्शनं अचक्षुर्दर्शनमवधिदर्शनं केवलदर्शनं (च) घटपटादिपदार्थसार्थसामान्याकारपरिज्ञानं ज्ञातव्यं । पदार्थविशेषाकारपरिज्ञानं पुनर्ज्ञानं ज्ञातव्यम् । अयमेव ज्ञानदर्शनयोर्भेदः । पश्च ज्ञानानि भवन्ति । यथा पञ्चभिरिन्द्रियैः पष्ठेन मनसा जीवस्य यत् ज्ञानं स्यात् तन्मतिज्ञानं । श्रुतं द्विधा भवति। द्रव्यश्रुतं भावश्रुतं च, यथा-द्रव्यश्रुतं द्वादशाङ्गीरूपं, भावश्रुतं द्वादशाङ्गीसमुत्पन्नोपयोगरूपं । अधिज्ञानं द्विप्रकार-भवहेतुकं श्राद्धसाधुतिरश्चां (गुणहेतुक) च । मनःपर्यायज्ञानं सार्धद्वौ (द्वय) द्वीपसमुद्रस्थितसंज्ञिपञ्चेन्द्रियमनोविषयं द्विभेदं ऋजुमतिविषुलमतिरूपं साधूनामेव भवति । केवलज्ञानं घनघातिकर्मचतुष्टयक्षयसमुत्पन्न सकललोकालोकविषयं । ज्ञानसाहचर्यादत्राप्यनु(त्रानु)क्तमपि विधाऽज्ञान, यथा-मत्यज्ञानं श्रुताज्ञानं विभाज्ञानं । सप्त द्वीपसमुद्रान् यावत् विभङ्गज्ञानं तु पश्यति मिथ्यादृष्टीनामेव त्रीण्यज्ञानानि भवन्ति । एतत्सूत्रे नोक्तं बहिर्गम्यं । वाचां मनसां चाग्रतो वक्ष्यमाणाः प्रत्येकं चतुर्धा ( चत्वारो) योगाः । तथा कायानां योगाः सप्तधा ( सप्त ) सर्वमीलनेन पश्चदश योगाः स्युरित्यर्थः । उपयोगो द्विधा-तत्र ज्ञानाज्ञानभेदाष्टकरूपाः साकारोपयोगाः (इतरे) चत्वारः, यथा-चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनकेवलदर्शन
AAAAववव
EO)
For Private and Personal Use Only