SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir न. त. अव० ॥१३॥ PRORREARS कानिचित् त्रिंशत्कोटाकोटीसागरप्रमाणस्थितिकानि भवति, कानि पुनः सप्ततिकोटाकोटीसागर प्रमाणस्थितिकानि भवति । एवं यावतं कालं बद्धानि कर्माणि तिष्ठति स स्थितिबंधः कथ्यते । तेषामेव पुनः कर्मणां केषांचिन्मधुररसः स्यात् केषांचित कटुकरसः स्यात् केषां पुनस्तीवरस: स्यात् स रसबंधः कथ्यते । तेषामेव पुनः कर्मणां तत्तत्पुद्गलपरिमाणं भवति स प्रदेशबंधः कथ्यते । एवमष्टमं बंधतत्वं व्याख्यातम् । अथ नवमं मोक्षतत्त्वं व्याख्यानयति छ संतपयपरूवणया, दव्वपमाणं च खित्तफुसणा य । कालो अ अंतरं भाग, भावे अप्पा बहुं चेव ॥३२॥ संतपय इति मोक्षतत्वस्य नवभेदा भवंति । ते च एवं ज्ञातव्याः। सत्पद प्ररूपणा १ द्रव्यप्रमाणं २ क्षेत्रप्रमाणं ३ स्पर्शना ४ काल: ५ अंतरं ६ भागः ७ भावः ८ अल्पबहुत्वं ९। अथ एतेषांनवानां मोक्षतत्वभेदानां स्वरूपं प्ररूपयति । संतं सुद्धपयत्ता, विज्जतं खकुसुमब्व न असंतं । मुक्खत्ति पयं तसउ, परूवणा मग्गणा ईहिं ॥ ३३॥ || संत सुद्ध इति-सतमितिसत् विद्यमानंमोक्ष इति पदं । मोक्ष इति नाम कस्मादेतोः । शुद्ध पदत्वात् असंयुक्तपदत्वात् एकपदत्वादित्यर्थः। खकुसुमवत् आकाशपुष्पवत् न असतं न असत् अविद्यमानं । अयं भावः सकलेऽपि जगति यस्य यस्य पदार्थस्य एकपदं नाम भवति स स पदार्थः अस्त्येव यथा घटपटलकुटादि । एवं मोक्षस्यापि मोक्षइति एकपदं नाम अतः ॥१३॥ For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy