SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrtm.org Acharya Shri Kailassagarsun Gyanmandir SAGA छ अथ अष्टमं बंधतत्त्वं प्ररूपयति छ ___बंधो इति बंधः कर्मभिः सह जीवानां संश्लेषः यथा क्षीरनीरयोः अग्न्यःपिंडयोर्वा । स चतुर्धा प्रकृति १ स्थिति २ | अनुभाग ३ प्रदेश ४ भेदैतिव्यः । एतानेव चतुरो भेदान् प्रक्षेपगाथया व्याख्यानयति । पयइ सहावो वुत्तो, ठिई कालावहारणं । अणुभागो रसो णेओ, पएसो दलसंचओ ॥३१॥ पया इति-प्रकृतिः स्वभावः परिणाम इतिभावः। स्थितिबंधः कालपरिमाणं । अनुभागो रसः कथ्यते । प्रदेशः पुद्गलपरिमाणरूपः। एते चत्वारोऽपि भेदा मोदकदृष्टांतेन ज्ञातव्याः। यथा कश्चिन्मोदकः तत्तद्रव्यसंयोगनिष्पन्नो वातं पित्तं श्लेष्माणं वा येन स्वरूपेण हंति स स्वभावः कथ्यते ॥१॥ यथा पुनः स एव मोदकः पक्षं मासं द्विमासं त्रिमासं चतुर्मासादि यावत् यत्तेनैव रूपेण तिष्ठति सा स्थितिः कथ्यते ।२। यथा पुनः स एव मोदकः कश्चित्तीवोभवति यत् स रसः कथ्यते ।३। यथा पुनः स एव मोदकः कश्चित् अल्पदलपरिमाणनिष्पन्नः कश्चित्पुनः बहुदलनिष्पन्नः कश्चिद् बहुतरदलनिष्पन्नः एवं मोदकेषु पुद्गलपरिमाणं स्यात् स प्रदेशः ।।। एवं कर्मणां बंघोऽपि चतुः प्रकारो ज्ञातव्यः । तथाहि-कानिचति ज्ञानावरणीयादीनि कर्माणि ज्ञानं दर्शनं चारित्रं वा नंति येन स्वभावेन स प्रकृतिबंधः प्रोच्यते । तान्येव पुनः कर्माणि कानिचित् जघन्यतः अंतर्मुहूर्तस्थितिकानि भवंति उत्कृष्टतश्च कानिचित् विंशति कोटाकोटिसागरोपमप्रमाणस्थितिकानि भवति । वरल For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy