________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
| स च उपशमेन स्यात् ।। मार्दवं मृदोर्भावः मार्दवं अहंकारपरिहारः ।। आर्जवं ऋजोर्भावः मायात्यागः ।३। निर्लोभता लोभपरिहारः ।४। तपः बाह्यांतरभेदैदिशधा ।५। संयमः प्राणातिपातविरमणरूपः ।६। सत्यं सद्भ्यो जीवेभ्यो हितं पथ्यं सत्यं ।७। शौचं सर्वजीवेषु मुखकारि वत्तनं शौचं अदत्तादानपरिहारः ।। अकिंचनत्वं न विद्यते किंचन यस्य सः | अकिंचनः अकिंचनस्यभावः अकिंचनत्वं सर्वपरिग्रह त्यागः ।९। ब्रह्म औदारिकवैक्रियसंबंधमैथुनपरिहारः ।१०। (२३)
अथ द्वादश भावना छ | पढममणिच्चमसरणं, संसारो एगया य अण्णत्तं । असुइत्तं आसव, संवरो, अ तह णिज्जरा नवमी ॥२४॥ लोगसहावो बोही, दुल्लहा धम्मस्स साहगा अरिहा । एआओ भावणाओ, भावेअव्वा पयत्तेणं ॥२५॥
पढम इति लोग सहावोइति-अनित्यभावना १ अशरणभावना २ भवभावना ३ एकत्वभावना ४ अन्यत्वभावना ५ अशौचभावना ६ आश्रवभावना ७ संवरभावना ८ निर्जराभावना ९ धर्मभावना १० लोकभावना ११ बोधिभावना १२ तत्र संसारे सर्वपदार्थानां अनित्यता यचित्यते सा अनित्यभावना ।।। अशरणं देहिनां मरणादिभये संसारे शरणं किमपि नास्ति इत्यादिचिंतनं अशरणभावना ।२। जीवानां चतुरशीतिलक्षजीवयोनिपरिभ्रमण चिंतनं भवभावना ।३। एकाक्येव जीवः उत्पद्यते विपद्यते कर्माण्युपार्जयति भुक्ते चेत्यादिचिंतनं एकत्वभावना ४ जीवानां देहात् पृथक्त्वे सति पुत्रकलत्रादिधनादिपदार्थेभ्यः अत्यंतभेद एकत्वं अतः तत्त्वृत्या कोऽपि कस्यापि संबंधी नास्ति-इत्यादि चिंतनं अन्यत्वभावना 1५। देहस्य सप्त
नट
For Private and Personal Use Only