________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३श अध्यायः] चिकित्सितस्थानम्। ३२२५
रोहितमत्स्य-8-पित्तेन पिष्टोऽयं परमोऽगदः। -: नस्याञ्जनादिलेपेषु हितो विश्वम्भरादिषु ॥ ५७॥
परमोऽगदः॥ खर्जिकाजशकृत्क्षारः सुरसोऽथाक्षिपीड़कः । मदिरामण्डसंयुक्तो हितः शतपदीविषे ॥ कपित्थमक्षिपीडोऽर्क-वीजं त्रिकटुकं तथा। करो वे हरिद्र च गृहगोधाविषं जयेत् ॥ काकाण्डयुक्तः सर्वेषां विषाणां तण्डुलीयकः । प्रधानं वहिपित्तेन तद्वद वायसपोलुकः ॥ ५८ ॥ शिरीषफलमूलत्वकपुष्पपत्रः समैघृतैः।
श्रेष्ठः पञ्चशिरीषोऽयं विषाणां प्रवरो बधे॥ अजगन्धा यमानी। क्षारो यवक्षारः कटभीक्षारोवा। वचादिमनःशिलान्तः रोहितमत्स्यपित्तेन पिष्टः परमोऽयमगदः स्यात्। विश्वम्भरः कीटविशेषः । परमोऽगदः ॥ ५७॥ . गङ्गाधरः-स्वर्जिकेत्यादि। स्वर्जिकाऽजशकृत् दग्ध्वा क्षारः कार्य। अक्षिपीड़कः पीड़यित्वा यद्रसोऽक्षिण दीयते सोऽवपीड़ोऽक्षिपीड़कः। मदिरामण्डसंयुक्तः शतपदोविषे लेपो हितः। कपित्थमित्यादि। कपित्थादिकं पीड़ायिखाक्ष्णि दत्तं गृहगोधाविषं जयेत्, तथाऽवीजं त्रिकटुकमक्षिपीड़ा। एवं करञ्जो द्वे हरिढे चाक्षिपोड़ः। काकाण्डेत्यादि। काकाण्डः कृष्णशिम्बी तदयुक्तस्तण्डूलीयकः सर्वेषां विषाणां प्रधानम्। वहि पित्तेन वायसपीलुकः काकजवा तद्वत् सर्वेषां विषाणां प्रधानमौषधम् ॥ ५८॥
गङ्गाधरः-शिरीषेत्यादि । शिरोषस्य फलं मूलं खम् च पुष्पश्च पत्रच
चक्रपाणिः-नाकुली रास्त्रा, गुहा पृश्निपर्णी, अतिगुहा शालपर्णी, भजगन्धा फोकान्दीति ख्याता। पिसेनेति गोपित्तेन । विश्वम्भरादयः कीटा एव श्लेष्मकोपनाः सुश्रुतोक्काः।। ५७ ॥:
चक्रपाणि:-अक्षिपीड़कः श्वेतपीतशिम्बीभेदः। वायसी काकमाची ॥५८॥ . • रोहितकस्य इति वा पाठः।
For Private and Personal Use Only